अथर्ववेदः/काण्डं ६/सूक्तम् १२७

विकिस्रोतः तः
← सूक्तं ६.१२६ अथर्ववेदः - काण्डं ६
सूक्तं ६.१२७
ऋषिः - भृग्वङ्गिराः
सूक्तं ६.१२८ →
दे. यक्ष्मनाशनम्, वनस्पतिः।

विद्रधस्य बलासस्य लोहितस्य वनस्पते ।
विसल्पकस्यौषधे मोच्छिषः पिशितं चन ॥१॥
यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ ।
वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम् ॥२॥
यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः ।
वि वृहामो विसल्पकं विद्रधं हृदयामयम् ।
परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥३॥