पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

244 श्रीरामानिचिहूतिसहितधूर्तस्वामिभाष्यभूषितै [खं. २, सू १० ध्वर्युर्जपति । उपहृतोऽयं यजमान इत्यभिज्ञायैत मेव मर्नु यजमानः ॥ ८ ।। २०॥ ४७९ ॥ [अन्वारम्भे च वरुणप्रघासे विशेषः] (भा) प्रतिप्रस्थातुरप्यन्वारम्भो वरुणप्रघासेष्विडाया उपहूत इति जपश्च ।। ४७९ ।। ( सू ) उपहूतायामग्रेणाहवनीयं ब्रह्मणे प्राशित्रं 'परि हरति ॥ ९॥ २१ ॥ ४८०॥ [सूत्रे परिहारदेशनिर्देशस्वारस्यप्राहिपक्षः (भा) अग्रेणाहवनीयमिति वचनादन्यत्रान्तरा’ऽमी नीयत इति A केचित् ।। ४८० ।। (ख) तस्मिन् क्ष प्राशित होताऽवान्तरेडां प्राश्नाति वाचस्पतये त्वा हुतं प्राश्नामि सदसस्पतये त्वा । हुतं प्राश्नामीति ॥ १० ॥ २२ ॥ ४८१ ॥ [प्रतिप्रस्थातुरिह परिग्रहहेतुः] (ह्) प्रतिप्रस्थातु—जपथ ;-विहारद्वये इडोपह्नस्य तत्रत्वात् हविषां कर्तृभेदात् स्वकीयकर्मी तद्धविरन्वारम्भणीयमिति प्रतिप्रस्था तुरन्वारम्भो जपश्च । [अन्यत्रान्तराीनयनानुमतिपक्षाशयः] अग्रेणा—इति केचित् ’--नान्तराऽमी संचरतति अन्तराऽमी- नयनप्रतिषेधेऽप्यप्रेणाहवनीय परिहरतीति प्राशित्रनियमादन्यत्रान्तरा नयनेऽपि न दोष इति प्रदर्शनार्थं वा प्राशित्रवचन शामित्राभि नयनादीनामग्रेण परिहरति तीर्थेनैव परिहरतीत्यप्रदेशस्य तीर्थत्वेन निर्देशात् सर्वेषां स एव मार्ग इति ॥ 1 तस्य सकाश नत्व प्रयच्छति । प्रदर्शनमिदमन्यस्यापि प्रस्तरादेर्यज्ञाङ्गस्य। तत्रान्तरानयनेऽप्यदोष इत्येके (रु). 2 नियमात्-घ 3 ऽन्तराऽग्निनीयत-घ

  • प्रदर्शन वा–क. 5 प्राशित्रे–क.