पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ३, सु. ४.] आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटल 247 (ख) तं यजमानो 'व्यादिशतीदं ब्रह्मण इदं होतु रिदमध्वर्योरिदमी इति ।। ३ ॥ २६ ॥४८५ ॥ व्यादेशकालतत्प्रकारौ व्यादेशशब्दार्थश्च] (भा) कृते व्यूहने आग्नीध्रभागस्यापि व्यपदेशः । सस्पृशता तमाभि मृशेदिति । इद ब्रह्मण इत्येवमादीनां नानाभूतानामादेशो व्यादेशे । (ख) अग्नीत्प्रथमान् होतृप्रथमान्वा ।। ४ ।। २७ ॥ ।। ४८६ ॥ [ब्यूहनोत्तरकलताया व्यादेशे लाभ] (हृ) कृतेव्यू-मृशेदिति~ अस्यार्थः ,- नेहाब्राह्मणास्यास्तीत्यन्तेन व्यूहने ‘ कृते त यजमानो व्यादिशति इदं ब्रह्मण इत्यादिना प्रतिदिश मवस्थितानामेव हविर्भागाणा हस्तेन स्पृष्ट व्यपदेशनम् । तदभिमृशे दिद ब्रह्मण इत्यादिश्रुते न बहि.स्थापनानन्तर व्यादेश. । तानेव तद्भागिन करोतीत्यादिना दिक्ष्वेव प्रतितिष्ठतीति दिक्षु प्रतिष्ठापना दुत्तरकालं व्यादेश”; तदाह ; [चतुर्धाकरणस्यावश्यकर्तव्यता] इदं ब्रह्मण-व्यादेश इति—शेयुवन्तादिसंस्थापक्षेऽपि चतुधो करणं ब्रह्मणः प्राशनाभावेऽपि प्रतिदिश व्यूहति दिक्ष्वेव प्रतिष्ठतीति पृथक्संस्कारत्वावगमात् । आशापालभ्यश्चतुभ्यं अमृतेभ्य इदमिति मन्त्रवणच दिक्पालनिर्बन्धाच्चतुर्धाकरणस्य इद ब्रह्मण इति तु निर्देश छुप्यतं । अथवा खण्डसस्थास्वपि संस्थिते भक्ष सर्वथा चतुर्धाकरणा निवृत्तिः । 1 विविधमादिशति (रु) 2व्यादैश –क ख ग ध 8भागित्वेनादिश- तीत्यर्थ (रु) * हने प्रतिदिशं कृते-क. घ