पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

246 श्रीरामाभिचिवृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खें ३, स् २. [आग्नेयविकारेषु अभिघारणादि धमें विशेषः] अभिघारणचतुर्धाकरणे आग्नेयविकाराणां चरुपुरोडाशानां न मुख्यधर्मः । पुरोडाशग्रहणाच्च'मेयस्याप्याग्नेयकार्यापन्नस्योभयममीषो मीयेषु प्रधानेषु । पुरोडाशग्रहणान्नोभय चरावित्युपदेशः ॥ ४८४ ॥ (वृ) बर्हिषद करोतीति चतुर्धाकरणसमानकर्तृकवान्मार्जनस्याध्वयेरेव मन्त्रेण मार्जन मा भूदिति मन्त्रावृत्तिरुच्यते । भक्षणाङ्गत्वान्मार्जनस्य भक्षयितृणां सर्वेषां मार्जनमिति । केचित्प्रस्तरादपादाने शिरस्यानयने च मन्त्रावृत्तिरिति 4 वर्णयन्ति । अपरे त्वन्तर्वेदि स्थित्वा मार्जन मित्याहुः, अन्नदास्स्थेति मार्जनवदिति ॥ [मुख्यधर्मत्वशङ्कावकाशः] आभिघारण--मुख्यधमेः इति ,--आशेय पुरोडाश चतुध कृत्वेत्यत्र पुरोडाशशब्दस्य हविरुपलक्षणत्वात् । तद्वदाप्लेयशब्दस्यापि प्रथमदेवतापरत्वशङ्कायामिदमुच्यते ,-न मुख्यधर्म इति ॥ [अभिघारणस्य चतुर्धाकरणसाम्यहेतुः] आग्नेयमुद्देश्यसमर्पकतया विवक्षितत्वात् अभिघारणे च आशेय मभिघारयति तूष्णीमुत्तरमित्यानेय एव मन्त्रेणाभिघारणस्योक्तत्वात् साघथं चतुर्धाकरणस्योच्यते ॥ [पुरोडाशग्रहणस्वारस्यलभ्यार्थः पुरोडाशग्र-प्रधानेषु- अस्यार्थः ,“उभयत्र आग्नेयमित्येत वता नियमे सिद्धेऽपि पुरोडाशग्रहणादीषोमीयाणि प्रधानानीत्यत्र आग्नेयस्थानापन्नस्यामीषोमीयस्योभयो प्राप्तिरधिकग्रहणप्रयोजनम् । पुरोडाशग्रह-त्युपदेश इति--पुरोडाशग्रहण हविरन्तरनिव र्तकमिति ॥ 1आग्नेयकार्यापन्नस्याप्याग्नेयस्य-ग इद क-पुस्तके न दृश्यते 2 स्या- युभयम् = तृणा मार्जन-क ‘इद क -पुस्तके न दृश्यते. (लु ण).