पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

240 श्रीरामसिंचिदृत्तिसहितधूर्तस्वामिभाष्यभूर्वि [खं १, सू . १० (सू ) 'संभेदाद्वितीयम् ॥ ८॥ ८॥ ४६५ ॥ ॥ [संभेदेऽवदनदिक् ] (भा) ? समेदाद्दक्षिणार्ध एव ॥ १६५ ॥ () पूर्वार्धाच्च यजमानभागमणमिव दीर्घम् । ॥ ९ ॥ ९ ॥ ४६६ ॥ [तृतीयावदाने भागः इडाप्रशिक्षपदर्थश्च (भा) यस्मात्पूर्वं गृहीत तस्मादेव तृतीयम् । ‘इडादेवता द्युष्टि । तदर्थत्वाद्दव्यमपीडा । प्रकृष्टैर्मन्त्रं प्राश्यत इति प्राशित्रम् । अणुमिव तनुमव ॥ ४६६ ॥ (ख) तमाज्येन ‘संत’ ° धुबा उपोहति ॥ १० ॥ ॥ १० ॥। ४६७ ॥ [सन्तर्पणे विशेषः ] (भा) त एकीभूतम् । आज्येन सर्वतस्तर्पयत्यवचनाद्दीप्सायाः । सान्नाय्ययजमानभागस्यापि तर्पणम् ॥ ४६७ ॥ [दिग्विशेषपरिग्रहहेतु-] (ख) संभेदाद्दक्षिणार्ध एवेति--दक्षिणार्थस्य प्रकृतत्वात् । [तृतीयावदानदेशनिष्कर्षः] पूर्ववदानसंस्ष्टदेशे --यस्मा -तृतीयम् । [अजनरूपसंतर्पणे विशेषे हेतुः यजमानभागे तत्पृथक्त्वे हेतु] तं एकीभूतमिति--त तमाज्येनेति वीप्साया अवचनात् सर्वपुरोडाशेभ्योऽवत्त यजमानभागमेकीकृत्य अणुमिव दीर्घ कृत्वा आज्येन संतर्पणम्--सर्वतोऽञ्जनम् । सानाय्ययजमानभागस्यापि संतर्पणम्-प्राशनमन्त्रभेदात् पृथग्धारणात् । 1 योऽवदानदेशयोर्मध्ये स्थितो हविरंश- स संभेद (रु). 2 सभेदा दक्षिणार्धादेव-ग संभेदाद्दक्षिणार्धाव एव-क. ४ इव ईषदर्थे (रु) * एतदादि भाष्यं मुद्रिते न दृश्यते 5 समज्य (रु) ध्रुवाया उपोहति-ध्रुवायास्समीप गमयति । तत्राप्रेण ध्रुवामिति भारद्वाजबोधायनौ (रु).