पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xx न चैवं विधसत्कर्मकलापोपदेष्टुपरिगणितो जैमिनिर्मुनिर्निस्स्व- रूपां देवतां वेदार्थ इत्युपदिशेत् । आश्वलायनप्रयोगदीपिकाकृत् मधुनाचार्योऽपि द्वादशे प्रश्ने यद्यपि प्रकृतिभावनिर्णये देवतासामान्यं दुर्बलमिति स्थितम् तथाऽपि औपग्रनिकद्रव्यसामान्यात् प्रत्यक्ष दे वतासामान्यं बलव देव इत्याह । त्रिकाण्डमण्डनव्याख्याकारोऽपि देवताविग्रहादि निराकरणस्य नावमिकस्य उत्सूत्रां समर्थयते । (३१ © } सत्याषाढकल्पव्याख्याता महादेवोऽपि वैजयन्त्याम् इन्द्राद्यर्था न लौकिकाः येनेन्द्रादिपदानां लोकतश्शक्तिग्रह- स्स्यात् । किंतु तेऽपि शास्त्रादेव ज्ञेया । शास्त्रं च विग्रहवत एव चूते । तत्रैव शक्तिग्रहो न तु विग्रह विधुरे व्यवहारोऽस्ति । न च शब्द एव तावद्देवतास्वरूप स् पदार्थत्वेन प्रमाणाभावात् तादृग- प्रतीतेश्च । तस्मात् यादृशेऽर्थे शक्तिग्रहः तादृगेव तत्तद्देवता- शब्देन वाच्यम् । तत्रैव देवतात्वेन विधि । बादरायणेनाप्यय मंशः प्रतिपादितः इत्याह । सायणाचार्या अपि वेदभाष्ये देवताविग्रहादि समर्थयन्ते । देवताविग्रहादि जैमिनिसंमतमेव कथमिदं देवताविग्रहादिनिराकरणस्योत्सूत्रत्वादिकं महाः निबन्ध्राक्षेपरूपं घटेत ? कश्च तत्समथनप्रकारः ? इति चेत्; अत्रेदमवधीयताम् श्रीमन्निगमान्तगुरूणां जैमिनिहृदयावेदनेन निदैवतवादि प्रतिबोधनम् (तत्वटीकायास्, अपि चैवं नवमाद्यपादे फलदेवतयोश्च । न चोदनातो हि तावुण्यमिति प्रसक्तयोः फलदेवतयोर्मध्ये देवताविषयाणि देवता वा प्रयोजयेत् इत्यादीनि सूत्राणि यानि तानि व्याकुर्म-देव तोद्देशेन देयं द्रव्यं देवता न प्रयोजयेत् कुतः १ कृष्यादिवत्फल- साधनभूतक्रियाया एव प्रयोजकत्वोपपत्तेः तत्राह सू. देवता वा प्रयोजयेत् अतिथिवलोजनस्य तदर्थत्वात् (९-१-६) वा शब्दश्शङ्कानिवर्तकः । हविरुद्देश्या देवता फलार्थिने 8*