हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०८९

विकिस्रोतः तः
← अध्यायः ०८८ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०८९
[[लेखकः :|]]
अध्यायः ०९० →
भगवता शङ्करेण ऋषिभ्यः श्रीकृष्णतत्त्वस्य उपदेशम्

एकोननवतितमोऽध्यायः

वैशम्पायन उवाच
इत्युक्त्वा देवदेवेशं मुनीनाह पुनः शिवः ।
एवं जानीत हे विप्रा ये भक्ता द्रष्टुमागताः ।। १ ।।
एतदेव परं वस्तु नैतस्मात् परमस्ति वः ।
एतदेव विजानीध्वमेतद् वः परमं तपः ।। २ ।।
एतदेव सदा विप्रा ध्येयं सततमानसैः ।
एतद् वः परमं श्रेय एतद् वः परमं धनम् ।। ३ ।।
एतद् वो जन्मनः कृत्यमेतद् वस्तपसः फलम् ।
एष वः पुण्यनिलय एष धर्मः सनातनः ।। ४ ।।
एष वो मोक्षदाता च एष मार्ग उदाहृतः ।
एष पुण्यप्रदः साक्षादेतत् च कर्मणः फलम् ।। ५ ।।
एतदेव प्रशंसन्ति विद्वांसो ब्रह्मवादिनः ।
एष त्रयीगतिर्विप्राः प्रार्थ्यो ब्रह्मविदां सदा ।। ६ ।।
एतदेव प्रशंसन्ति सांख्ययोगसमाश्रिताः ।
एष ब्रह्मविदां मार्गः कथितो वेदवादिभिः ।। ७ ।।
एवमेव विजानीत नात्र कार्या विचारणा ।
हरिरेकः सदा ध्येयो भवद्भिः सत्त्वमास्थितैः ।। ८ ।।
नान्यो जगति देवोऽस्ति विष्णोर्नारायणात्परः।
ओमित्येवं सदा विप्राः पठत ध्यात केशवम् ।। ९ ।। ।
ततो निःश्रेयसप्राप्तिर्भविष्यति न संशयः ।
एवं ध्यातो हरिः साक्षात्प्रसन्नो वो भविष्यति।। 3.89.१० ।।
भवनाशमयं देवः करिष्यति दृढं हरिः ।
सदा ध्यात हरिं विप्रा यदीच्छ प्राप्तुमच्युतम् ।। ११ ।।
एष संसारविभवं विनाशयति वो गुरुः ।
स्मरध्वं सततं विष्णुं पठध्वं त्रिशरीरिणम् ।। १२ ।।
मनःसंयमनं विप्राः कुरुध्वं यत्नतः सदा ।
शुद्धेऽन्तःकरणे विष्णुः प्रसीदति तपोधनाः ।। १३ ।।
ध्यात्वा मां सर्वयत्नेन ततो जानीत केशवम् ।
उपास्योऽहं सदा विप्रा उपास्येऽस्मिन् हरी स्मृतः।। १४।।
उपायोऽयं मया प्रोक्तो नात्र संदेह इत्यपि ।
अयं मायी सदा विप्रा यतध्वमघनाशने ।। १५ ।।
यथा वो बुद्धिरखिला शुद्धा भवति यत्नतः ।
तथा कुरुत विप्रेन्द्रा यथा देवः प्रसीदति ।। १६ ।।
वैशम्पायन उवाच
एवमुक्तास्ततः सर्वे मुनयः पुण्यशीलिनः ।
यथावदुपगृह्णाना निरसन् संशयं नृप ।। १७ ।।
एवमेवेति तं विप्राः प्राहुः प्राञ्जलयो हरम् ।
छिन्नो नः संशयः सर्वो गृहीतोऽर्थः स तादृशः।। १८ ।।
एतदर्थं समायाता वयमद्य तवालयम् ।
संगमाद् युवयोः सर्वो नष्टो मोहो महानिह ।। १९ ।।
यथा वदसि देवेश तथा नः श्रेयसे परम् ।
यथाऽऽह भगवान् रुद्रो यतामः सततं हरौ ।
इति ते मुनयः प्रीताः प्रणेमुः केशवं हरिम् ।। 3.89.२० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि ऋष्युपदेशे एकोननवतितमोऽध्यायः ।। ८९ ।।