हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०८६

विकिस्रोतः तः
← अध्यायः ०८५ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०८६
[[लेखकः :|]]
अध्यायः ०८७ →
पिशाचैः, मुनिभिः अप्सरोभिश्च साकं उमासहितस्य भगवतः शङ्करस्य श्रीकृष्णस्य समीपे गमनम्

षडशीतितमोऽध्यायः

वैशम्पायन उवाच
तस्याग्रे समपद्यन्त भूतसंघाः सहस्रशः ।
घण्टाकर्णो विरूपाक्षः कुण्डधार कुमुद्वहः ।। १ ।।
दीर्घरोमा दीर्घभुजो दीर्घबाहुर्निरञ्जनः ।
उरुनेत्रः शतमुखः शतग्रीवः शतोदरः ।। २ ।।
कुण्डोदरो महाग्रीवः स्थूलजिह्वो द्विबाहुकः ।
पार्श्ववक्त्रः सिंहमुख उन्नतांसो महाहनुः ।। ३ ।।
त्रिबाहुः पञ्चबाहुश्च व्याघ्रवक्त्रः सिताननः ।
एते चान्ये च बहवो दीर्घास्या दीर्घलोचनाः ।। ४ ।।
नृत्यन्तः प्रहसन्तश्च स्फोटयन्तः परस्परम् ।
तथान्ये घोररूपाश्च तथान्ये विकृताननाः ।। ५ ।।
प्रेतभक्षाः प्रेतवाहा मांसशोणितभोजनाः ।
शवानि सुबहून्याशु भक्षयन्तस्ततस्ततः ।। ६ ।।
पिबन्तो रुधिरं घोरं खण्डयन्तः शवान् बहून् ।
कराला वितता दीर्घा धमनिस्नायुसंतताः ।। ७ ।।
नानाविधाः सुवीराश्च शूलाग्रप्रोतमानुषाः ।
शिरोमालावृताः केचिदान्त्रपाशावपाशिताः ।। ८ ।।
डिण्डिमैरट्टहासैश्च नादयन्तो वसुन्धराम् ।
कपालिनो भैरवाश्च जटिला मुण्डिनस्तथा ।। ९ ।।
एवं बहुविधा घोराः पिशाचा विकृताननाः ।
तथान्ये मुनिवीराश्च ध्यायन्तः परमेश्वरम् ।। 3.86.१० ।।
पठन्तो वेदवाक्यानि साङ्गानि विविधानि च ।
कुण्डि=कास्थकराः केचित्केचित्कुशविचारिणः।। १ १।।
कौपीनवसनाः केचित् केचित् कार्पाससंवृताः ।
स्तुवन्तः शंकरं भक्त्या स्तोत्रैर्माहेश्वरैस्तथा ।। १२।।
एकत्र ते मुनिगणा अपरत्र गणास्तथा ।
अन्यत्र सिद्धगन्धर्वाः प्रियाभिः सह संगताः ।। १३।।
नृत्यन्ति नृत्यकुशला गायन्ति स्म च कन्यकाः ।
विद्याधरास्तथान्यत्र स्तुवन्तः शंकरं शिवम् ।। १४।।
ननृतुस्तस्य पुरतो गच्छन्तोऽप्सरसां गणाः ।
एवमेतैर्महाघोरैः पिशाचैर्भूतकिन्नरैः ।। १५।।
मुनिभिश्चैव प्रमथैः समं शर्वः समाययौ ।
यत्र विश्वेश्वरो विष्णुस्तपस्तेपे सुदारुणम् ।। १६ ।।
यत्र ते लोकपालाश्च तिष्ठन्ति स्म दिदृक्षया ।
उमया लोकभाविन्या गङ्गया चन्द्रशेखरः ।। १७।।
स सर्वलोकप्रभवो भवो विभुर्जटी च साक्षात् प्रणवात्मकः कृती ।
द्रष्टुं हरिं विष्णुमुदारविक्रमो ययौ यथेष्टं पिशिताशनैर्वृतः ।। ।८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां महादेवागमने षडशीतितमोऽध्यायः ।। ८६ ।।