हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०५४

विकिस्रोतः तः
← अध्यायः ०५३ हरिवंशपुराणम्
अध्यायः ०५४
वेदव्यासः
अध्यायः ०५५ →
राजानां अनुरोधं स्वीकृत्वा श्रीकृष्णोपरि विजयं प्राप्तुं कालयवनस्य प्रस्थानम्

चतुष्पञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
एवं कथयमानं तं शाल्वराजं नृपाज्ञया ।
उवाच परमप्रीतो यवनाधिपतिर्नृपः ।। १ ।।
कालयवन उवाच
धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं मम ।
कृष्णनिग्रहहेतोर्यन्नियुक्तो बहुभिर्नृपैः ।। २ ।।
दुर्जयस्त्रिषु लोकेषु सुरासुरगणैरपि ।
तस्य निग्रहहेतोर्मामवधार्य जयाशिषम् ।। ३ ।।
प्रहृष्टै राजसिंहैस्तैरवधार्यो जयो मम ।
तेषां वाचाम्बुवर्षेण विजयो मे भविष्यति ।। ४ ।।
करिष्ये वचनं तेषां नृपसत्तमचोदितम् ।
पराजयोऽपि राजेन्द्र जयेन सदृशो मम ।। ५ ।।
अद्यैव तिथिनक्षत्रं मुहूर्तं करणं शुभम् ।
यास्यामि मथुरां राजन् विजेतुं केशवं रणे ।। ६ ।।
वैशम्पायन उवाच
एवमाभाष्य राजानं सौभस्य पतिमूर्जितम् ।
सत्कृत्य च यथान्यायं महार्हमणिभूषणैः ।। ७ ।
ब्राह्मणेभ्यो ददौ वित्तं सिद्धादेशाय वै नृपः ।
पुरोहिताय राजेन्द्र प्रददौ बहुशो धनम् ।। ८ ।।
हुत्वाग्निं विधिवद् राजा कृतकौतुकमङ्गलः ।
प्रस्थानं कृतवान् सम्यग् जेतुकामो जनार्दनम् ।। ९ ।।
शाल्वोऽपि भरतश्रेष्ठ कृतार्थो हृष्टमानसः ।
यवनेन्द्रं परिष्वज्य जगाम स्वपुरं नृपः ।। 2.54.१० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कालयवनवाक्ये चतुष्पञ्चाशत्तमोऽध्यायः ।। ५४ ।।