पृष्ठम्:नवरात्रप्रदीपः.djvu/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
नवरात्रप्रदीपभूमिकायाम्-

इत्यादीन्यमायुक्तप्रतिपन्निषेधेन द्वितीयायुक्तप्रतिपद्विधायकानि वाक्यानि तान्यपि प्रतिपदः अमायोगाऽभावे द्वितीयायोगमात्रसत्त्वे द्वितीयायुक्तप्रतिपदोऽनुपादेयत्वशङ्कानिरसनद्वारा गौणकालविधानपराणि "प्रधानकालप्रत्यासत्तेः क्रमनियामकत्वात्" इति न्यायात् ,

स्वकालदुत्तरः कालो गौणः सर्वः प्रकीर्तितः ।

 इतिवचनाच्च । ततश्चामायुक्तप्रतिपदभावे द्वितीयायुक्तायामपि प्रतिपदि तदारम्भ इति तेषामर्थः । यः पुनरमायोगनिषेधः स विधेयस्तुत्यर्थ इति न क्वाऽपि विरोधः । ” इत्यादि सविस्तरं ग्रन्थ एवाऽवलोकनीयम् । एव चाऽत्र मतद्वये कतरत्समीचीन युक्त चेति निर्णयकरण विषमतममपि गुरुचरणकृपाप्रसादसमासादितया विशदतया दृशा स्वाऽनुभवेन च समालोच्यमानं नोपहास्यं स्यादिति विभाव्य सङ्क्षिप्ततया समालोच्यते--

 इदं तावत्सर्वैरपि निरन्तरमनुभूयते यदपेक्षितवस्तुप्राप्त्याऽऽनन्दप्राप्तिरिति । अपेक्षितवस्त्वपि किं स्यादित्यत्र ब्रूमः सर्वमिद विश्व किल गुणत्रयमयम् । तत्र क्वचिद्वस्तुनि त्रिषु गुणेषु सत्त्वाधिक्यं तदपेक्षया न्यूनं रजः, तदपेक्षया च तमः । एवं तत्र तत्र न्यूनाधिक्यभावेन गुणत्रयमयत्वम् । प्राधान्येन व्यपदेशा भवन्तीति न्यायेन च सात्त्विकराजसादिव्यपदेशः । ततश्च सात्त्विकः सात्त्विकप्राप्त्या मोदते, राजसो राजसेन, तामसस्तामसेन । युक्तं चैतत् । ययोरेवं साम्यं सम्भ