पृष्ठम्:नवरात्रप्रदीपः.djvu/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
नवरात्रप्रदीपभूमिकायाम्-

 इत्यादिवचनात्, "प्रतिपदाऽप्यमावास्या” इतियुग्मवाक्याच्च । एव च पूर्वदिनेऽपि सत्त्वे सुतरां पूर्वा। एतद्विषयाण्येव

अमायुक्तैव कर्तव्या प्रतिपच्चण्डिकार्चने ।

इत्यादीन्याधुनिकनिबन्धलिखितवाक्यानि ।"

 “पूर्वदिने प्रदोषादूर्ध्वं प्रवृत्त्या द्वितीयदिने चाऽस्तमयपर्यन्तसत्त्वेन दिनद्वये प्रदोषास्पर्शेऽपि पूर्वैव ग्राह्या । गौणकालव्यापित्वात् ।

स्वकालादुत्तरः कालो गौणः सर्वः प्रकीर्तितः।

इति प्रदोषोत्तरकालस्य गौणत्वात् ।

नक्तव्रतेषु सर्वेषु रात्रियोगः प्रशस्यते ।

 इतिवचनाच्च ।” “एवं प्रामाणिकनिबन्धकारोक्तनक्तव्रतत्वाऽनुरोधेन पूर्वेद्युरेव प्रदोषव्याप्तौ दिनेऽसत्त्वेऽपि, तत्र सत्त्वे सुतरां दर्शयुक्ताया एव प्रतिपदो नवरात्रव्रतग्राह्यत्वे न्याय्ये यदिदानीन्तनाना केषाश्चिद्दाक्षिणात्यानां नक्तव्रतत्वाऽपह्नवेन

अमायुक्ता न कर्तव्या प्रतिपत् पूजने मम ।
मुहूर्त्तमात्रा कर्तव्या द्वितीयादिगुणान्विता ॥

 इत्यादि क्वाऽप्यदृष्टवचनपुरस्कारेण त्रिमुहूर्त्तदर्शयुक्तामहोरात्रव्यापिनीमपि प्रतिपदमुल्लङ्घ्य ‘मुहूर्तमात्राऽपि द्वितीयायुक्तैव सा ग्राह्या' इति निर्णयकरण तादृशमेव चाऽनुष्ठानप्रवर्त्तनं तत्साहसमात्रम्” इत्याद्युक्तिभिः किंचिन्माध्यस्थ्यमवलम्बमाना अपि धर्माधिकारिमतमेव पोषयन्ति । तदनुयायिनस्तद्दौहित्रास्तत्सदुपाख्यरामभट्टाः स्वकृते कृत्यरत्‍नावलीनिबन्धे तथैव प्रतिपाद-