पृष्ठम्:नवरात्रप्रदीपः.djvu/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८
नवरात्रप्रदीपे-

त्वादिति वाच्यम् । नवरात्रसमाख्यामात्रेण भ्रान्त्या नवम्युपवासप्रवृत्तस्याऽनेन निवत्र्तनात् । ननु

  अयाची त्वथ वैकाशी नक्ताशी त्वथ वाय्वदः ।
  प्रारभ्य नन्दिकां राजन् । यावद्धि नवमी भवेत् ॥

 इत्यादिवाक्यैर्नवमीमभिव्याप्यैकभक्तादिविधानात्कथं नवम्यां पारणमिति चेत् न। यावच्छब्दस्याऽवध्यर्थत्वेनाऽभिव्यात्प्यर्थत्वाऽभावात् । अन्यथा पूर्वोक्ताऽनेकदोषापत्तेः । अत एवोक्तं च

  नवम्यां च जपं होमं समाप्य विधिवद्बलिम् ।
  यात्रां वैजयिकीं कुर्याद्दशम्यां श्रवणेऽपि च ॥ इति ।

 नवम्यां जपादिसमाप्तिं वदता जपाद्युत्तराङ्गस्यैव तत्राऽनुष्ठानं दर्शितं, न जपादिरिति । समाप्तेश्वरमपदार्थानुष्ठानत्वात् । ननु

  एकभक्तेन नक्तेन स्वशक्त्याऽऽयाचितेन च ।
  अथ वा नवनक्तैश्व नवरात्रं समापयेत् ॥

 इत्यत्र नवनक्तश्रवणात्कथं नवम्यां पारणमिति चेत् नैष दोषः । नह्युपवासा़डडधिक्यमपि निषिध्यते येन नव- मीपारणविरोधः । पारणशब्दस्य कर्ममात्रसमाप्त्यर्थक-