अथ दशमः ।
रुद्रयामलेऽष्टमेऽध्याथे-
आश्विने मासि सम्प्राप्ते शुक्लपक्षे विधेस्तिथिम् ।
प्रारभ्य नवरात्रं स्याद् दुर्गा पूज्या तु तत्र वै ॥
उपोषणेन नक्तेन एकभक्तेन वा पुनः ।
हविष्यान्नेन वा देव ! प्रत्यहं पूजयच्छिवाम् ।।
व्रतोपवासपूजादौ दिनहानि च कारयेत् ।
न देवदिवसस्याऽत्र वृद्धिः कार्या विजानता ॥
तिथिवृद्धि तु यः कुर्यादज्ञानाज्ज्ञानतोऽपि वा।
परलोके भवेत्पीडा प्रेतत्वजनिता स्थिरा ॥
भगवत्याश्च पीडा स्यादुपवामेन केशव ! ।
तस्मान्न वर्द्धयेदेव ! दिवसं दुर्गपूजने ॥
प्रत्यह पूजने प्रोक्तो विधिर्देवमहर्षिभिः ।
तिथिवृद्धौ न कार्य स्यात्तस्मान्नो वर्धयेद्दिनम् ।।
तिथिहासस्तु कर्तव्यो देवीपूजनके व्रते ।
तेन सम्मानिता देवी हासो येन कृतः प्रभो ! ॥
इत्यादिनोपवासाऽऽधिक्यनिषेधादष्टावेवोपवासाः । न च प्रतिषेधबलादेवाऽधिकोपवाससिद्धिः। तस्य प्राप्तिपूर्वक-