पृष्ठम्:नवरात्रप्रदीपः.djvu/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७
पारणनिर्णयः

 अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् ।
 पूजयित्वऽऽश्विने मासि विशोको जायते नरः ।
इतिफलश्रवणात् । यद्यप्यत्रोपवासो न भूयते तथाऽपि
 कन्यासंस्थे रवावीशशुक्लाष्टम्यां प्रपूजयेत् ।
 सोपवासो निशार्धे तु महाविभवविस्तरैः ।

तथा--

 तत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ।
 प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह ।
 अतोऽर्थं पूजनीया सा तस्मिन्नहनि मानवैः।
 उपोषितैर्वस्त्रधूपमाल्यरत्ननुलेपनैः ॥

इत्यादिवाक्यैः पूजाया उपवासपूर्व्वकत्वबोधकैरेकत्वा क्यतापन्नत्वेन तेनोपवासपूर्वेकपूजाया एव फलसम्बन्धबोधकत्वात् । न च दिनद्वयसाध्यकर्मान्तरस्यैवेदं फलश्रवणमिति वाच्यम् । तत्तद्वाक्यैः प्रत्येकमुत्पादिताया एवाऽष्टमीनवमीपूजाया एकप्रयोगतासूचनाय समुदायीकरणपूर्वकफलसम्बन्धकरणात् । आग्नेयादित्रिकसमुदायीकरणवाक्यवदिति च (?) विरोधः इति स्यात्परं दृष्टान्ते विशेषः यदेकेन वाक्येन समुदयीकरणमपरेण