पृष्ठम्:नवरात्रप्रदीपः.djvu/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०
नवरात्रपदीपे-

ष्टमीविषयाणीति तदपि न ।

  अष्टमीनवमीयुग्मे महोत्साहे महोत्सवः ।
  शिवशक्त्योः शिवक्षेत्रे पक्षयोरुभयोरपि ॥

 इतिवाक्यदर्शनात् । किं च सामान्यवाक्यानां कृष्णाष्टमीविषयत्वेऽपि भोजराजीयवाक्यानां महाष्टमीप्रकरणगतानां दिवोदासोदाहृतविशेषवाक्यानां च विरोधाऽपरिहारात् । अथाऽपि कृष्णाष्टमीविषयत्वाऽभिनिवेशस्तर्हि पच्चदशदिवससाध्यदेवीपूजायामाश्विनकृष्णपक्षे अष्टम्यां देवीमधिवास्य नवम्यां च प्रबोध्याऽग्रिमाष्टमीपर्यन्त या पूजा क्रियते तत्र या कृष्णाऽष्टमी तद्विषयाणि वा भवन्तु । तदुक्तं देवीपुराणे--

  कन्यायां कृष्णपक्षे तु पूजयित्वाऽधिवासयेत् ।
  नवम्यां बोधयेद्देवीं गीतवादित्रनिःस्वनैः ॥ इति ।

 अत्र नवम्यां बोधनविधानादष्टम्यामधिवासनमर्थंसिद्धं भवतीति ।

अथ नवमीनिर्णयः ।

 स च यद्यपि पूर्वोदाहृतरूपनारायणभोजराजादिवाक्यैरष्टमीनिर्णयेनैव सिद्धस्तथाऽपि संशयव्युदासार्थे