पृष्ठम्:नवरात्रप्रदीपः.djvu/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
नवरात्रव्रतविधिः

 वत्सजान्वाकृतिं वेदमुत्तराग्रैः कुशैः कृतः ।
 ब्रह्मोपधाने कृत्वा तं ततः स्वस्त्ययनं पठेत् ॥
 प्रतिष्ठां कारयेत्पश्चात्पूजाद्रव्यमथोच्यते ।

इत्यभिधाय “ब्रह्मजज्ञानम्” इति वा गायत्र्या वा पूजयेत् |

 उपाध्यायं च सम्पूज्य यथापाठ पठेत्ततः। इति ।

   अथ नवरात्रव्रतविधिः।
नारदीयपुराणे--
   अरुन्धत्युवाच-

 व्रतं किंचित्समाख्यातं रूपसौभाग्यदायकम् ।
 स्त्रीभिर्नृभिश्च यच्चाल्पं कृतं सर्वार्थसाधकम् ॥

   वसिष्ठ उवाच--

 शृणु चार्वाङ्गि ! विमले शरत्काले उपस्थिते ।
 आश्विनस्य सिते पक्षे नवरात्रव्रतं शुभम् ॥
 आदौ प्रतिपदं प्राप्य तिथिं चण्डीमनःप्रियाम् ।
 प्रातःस्नानं प्रकुर्व्वीत विधिना स्त्री नरोऽपि वा ॥