अथर्ववेदः/काण्डं ६/सूक्तम् ११६

विकिस्रोतः तः
← सूक्तं ६.११५ अथर्ववेदः - काण्डं ६
सूक्तं ६.११६
जाटिकायनः
सूक्तं ६.११७ →
दे. विवस्वान्। जगती, २ त्रिष्टुप्

मधुमदन्नम्

6.116
यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया ।
वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥१॥
वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति ।
मातुर्यदेन इषितं न आगन् यद्वा पिताऽपराद्धो जिहीदे ॥२॥
यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन् ।
यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥३॥