पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रणितव्यवहारः 131

सूक्ष्मगणितफलं ज्ञात्वा तत्सूक्ष्मगणितफलवत्समत्रिबाहुक्षेत्रस्य बाहुसङ्ख्यानयनसूत्रम्--

गणितं तु चतुर्गुणितंवर्गीकृत्वा भजेत् त्रिभिर्लब्धम् ।
त्रिभुजस्य क्षेत्रस्य च समस्य बाहोः कृतेर्वर्गम् ॥ १५४(१/२) ॥

अत्रोद्देशकः ।

कस्यापि समश्यश्रक्षेत्रस्य च गणितमुद्दिष्टम् ।
रूपाणि त्रीण्येव बृहि प्रगणय्य मे बाहुम् ॥ १५५(१/२) ॥

सूक्ष्मगणितंफलसङ्ख्यां ज्ञात्वा तत्सूक्ष्मगणितफलवह्निसमत्रिबाहु
क्षत्रस्य प्रजभूम्यवलम्बकसङ्ख्यानयनसूत्रम्--

इच्छाप्तधनेच्छाकृतियुतिमूलं दोः क्षितिर्टिगुणितेच्छा ।
इच्छाप्तधनं लवः क्षेत्रे द्विसमत्रिबाहुजन्ये स्यात् ।। १५६(१/२) ॥

अत्रोद्देशकः ।

कस्यापि क्षेत्रस्य द्विसमत्रिभुजम्य सूक्ष्मगणितमिनाः ।
त्रीणीच्छा कथय सरवे भुजभूम्यवलम्बकानाशु । १५७(१/२) ॥

सूक्ष्मगणितफलसख्यां ज्ञात्वा तत्सूक्ष्मगणितफलवद्विषमत्रिभुजान
यनस्य सूत्रम् –

अष्टगुणितेष्टकृतियुतधनपदघनमिष्टपदहदिष्टार्धम् ।
भूः स्यादूनं द्विपदाहृतेष्टवर्गे मुजे च सङ्कमणम् ।। १५८(१/२) ॥

अत्रोद्देशकः ।

कस्यापि विषमबाहोच्यश्रक्षेत्रस्य सूक्ष्मगणितामिदम् ।
हे रूपे निर्दिष्टे त्रीणीष्टं भूमिबाहवः के स्युः ॥ १५९(१/२) ॥

पुनरपि सूक्ष्मगणितफलसङ्ख्यां ज्ञात्वा तफलवद्विषमत्रिभुजानयनसूत्रम्-


'वर्गीकृत्वा ought to be वर्गीकृत्य ; but this form will not suit the require
ments of the metre.