पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

104 गणितसारसङ्ग्रहः

पुनरपि इष्टावुत्तरपदवर्णसङ्कलितानयनसूत्रम् -

द्विगुणैकोनपदोत्तरतिहतिरेकोनपदहताङ्गहृता ।
ठ्येकपदादिचयाहतिमुखकृतियुक्ता पदाहता सारम् ॥ २९९ ॥

अत्रोद्देशकः ।

त्रीण्यादिः पञ्च चयो गच्छः पचास्य कथय कतिचितिकाम् ।
पशदिखीणि चयो गच्छः सप्तास्य का च कृतिचितिका ।। ३०० ॥

घनसङ्कलेतानयनसूत्रम--

गच्छार्धवर्णराशी रूपाधिकगच्छवर्गसङ्गणितः ।
घनसङ्कलितं प्रोक्तं गणितेऽस्मिन् गणिततवनैः ॥ ३०१ ॥

अत्रोद्देशकः ।

षण्णामष्टानामपि सप्तानां पञ्चविंशतीनां च ।
षट्पञ्चशन्मिश्रितशतद्वयस्यापि कथय घनपिण्डम् ॥ ३०२ ॥

इष्टावुत्तरगच्छघनसङ्कलितानयनसूत्रम् -

चित्यादिहतिर्मुरवचयशेषम्ना प्रचयनिम्नचितिवर्गे ।
आदौ प्रचयादूने विद्युता युक्ताधिके तु घनचितिका ॥ ३०३ ॥

अत्रोद्देशकः ।

आदिस्त्रयश्चयो द्वौ गच्छः पचास्य घनचितिका ।
पञ्चदिस्सप्तचयो गच्छष्षट् का भवेच्च घनाचितिका ॥ ३०४ ॥

सङ्कलतसकलतानयनसूत्रम--

द्विगुणैकोनपदोत्तरतिहतिरङ्गहता चयार्धयुता ।
आदिचयाहतियुक्ता व्येकपदनदिगुणितेन ।
सैकमुभवेन युता पददलशुणितैव चितिचितिका ॥ ३०५(१/२) ॥