पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 67

अत्रोद्देशकः ।

सप्तार्धशतकयोगे वृद्धिस्त्वष्टाग्रविंशतिरशीत्या ।
कालेन केन लब्धा कालं विगणय्य कथय सरवे ॥ १९ ॥

विंशतिषट्शतकस्य प्रयोगतः सप्तगुणषष्टिः ।
वृद्धिरपि चतुरशीतिः कथय सर्वे कालमाशु त्वम् ॥ १६ ॥

षट्शतेन हि युक्ताः षण्णवतिवृद्धिरत्र सन्दृष्टा ।
• सप्तोत्तरपञ्चाशत् त्रिपञ्चभागश्च कः कालः ॥ १७ ॥

भाण्डप्रतिभाण्डसूत्रम्-

भाण्डस्वमूल्यभक्तं प्रतिभाण्डं भाण्डमूल्यसङ्गणितम् ।
स्वेच्छाभाण्डाभ्यस्तं भाण्डप्रतिभाण्डमूल्यफलमेतत् ॥ १८ ॥

अत्रोद्देशकः ।

क्रीतान्यष्टौ शुण्ठ्याः पलानि षभिः परैः सपादांशैः।
पिप्पल्याः पलपञ्चकमथ पादोनैः परैर्नवभिः ॥ १९ ॥

शुण्ठ्याः पलैश्च 'केनचिदशीतिभिः कति पलानि पिप्पल्याः।
क्रीतानि विचिन्त्य त्वं गणितबिदाचक्ष्व मे शीघ्रम् ॥ २० ॥

इति मिश्रकव्यवहारे पञ्चराशिकविधिः समाप्तः ।

वृद्धिविधानम् ॥

इतः परं मिश्रकव्यवहारे वृद्धिविधानं व्याख्यास्यामः।

मूलघडिमिश्रविभागानयनसूत्रम्--

रूपेण कालहृद्या युतेन मिश्रस्य भागहारविधिम् ।
कृत्वा लब्धं मूल्यं वृद्धिमूलोनमिश्रधनम् ॥ २१ ॥


  • Both M and B have the erroneous reading कश्चित् वशीतिभि: स च

पलानि पिप्पल्याः