अग्निपुराणम्/अध्यायः १९५

विकिस्रोतः तः

अथ पञ्चनवत्यधिकशततमोऽध्यायः

अग्निपुराणम्
















वारव्रतानि

अग्निरुवाच
वारव्रतानि वक्ष्यामि भुक्तिमुक्तिप्रदानि हि ।१९५.००१
करं पुनर्वसुः सूर्ये स्नाने सर्वौषधी शुभा ॥१९५.००१
श्राध्हौ चादित्यवारे तु सप्तजन्मस्वरोगभाक् ।१९५.००२
सङ्क्रान्तौ सूर्यवारो यः सोऽर्कस्य हृदयः शुभः ॥१९५.००२
कृत्वा हस्ते सूर्यवारं नक्तेनाब्दं स सर्वभाक् ।१९५.००३
चित्राभसोमवाराणि सप्त कृत्वा सुखी भवेत् ॥१९५.००३
स्वात्यां गृहीत्वा चाङ्गारं सप्तनक्त्यार्तिवर्जितः ।१९५.००४
विशाखायां बुधं गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥१९५.००४
अनुराधे देवगुरुं सप्तनक्ती ग्रहार्तिनुत्(१) ।१९५.००५
शुक्रं ज्येष्ठासु सङ्गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥१९५.००५
मूले शनैश्चरं गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥६ ॥१९५.००६
टिप्पणी
१ अनुराधेत्यादिः ग्रहार्तिनुदित्यन्तः पाठः झ.. पुस्तके नास्ति

इत्याग्नेये महापुराणे वारव्रतानि नाम पञ्चवनत्यधिकशततमोऽध्यायः ॥