पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः

तपञ्चकशतं प्रोक्तं प्रमाणं मानवेदिभिः। वर्तमाननराणामङ्गलमात्माङ्गलं भवेत् ॥ २८ ॥

यवहारप्रमाणे हे ' राद्धान्ते लौकिके विदुः ।

आत्माङ्गलमिति त्रेधा तिर्यक्पादः षडङ्गलैः ॥ २९ ॥


पादद्वयं वितस्तिस्स्यात्ततो हस्तो द्विसङ्गणः।

दण्डो हस्तचतुषेण क्रशस्तद्विसहस्रकम् ॥ ३० ॥


योजनं चतुरः क्रोशान्प्राहुः क्षेत्रविचक्षणाः ।

वक्ष्यतेऽतः परं कालपरिभाषा यथाक्रमम् ॥ ३१ ॥

अथ कालपरिभाषा ।

अणुरण्वन्तरं काले व्यतिक्रामति यावति ।

स कालस्समयोऽसङ्ख्यैस्समयैरावलिर्भवेत् ॥ ३२ ॥


सङ्ख्यातावलरुच्छासः स्तोकस्तूच्छाससप्तकः ।

स्तोकास्सप्त लवसेषां साधीष्टात्रिंशता घठी ॥ ३३ ॥


घठीद्वयं मुहूर्ताऽत्र मुहूतैस्त्रिशता दिनम् ।

पथनौस्त्रिदिनैः पक्षः पक्षौ द्वौ मास इष्यते ।। ३४ ॥


अतुर्मासद्वयेन स्यात्रिभिस्तैरयनं मतम् ।

तदयं वत्सरो वक्ष्ये धान्यमानमतः परम् ॥ ३९ ॥

अथ धान्यपरभाष ।

विद्धि षोडशिकास्तत्र चतस्रः कुडहो भवेत्।

कुडहांश्चतुरः प्रस्थश्चतुः प्रस्थानथाढकम् ॥ ३१ ॥


चतुर्भिराढकैद्रणो मानी द्रोणैश्चतुर्गुणैः ।

वारी मानचतुषेण रत्वार्यः पञ्च प्रवर्तिका ॥ ३७ ॥


नये. • K and B वा. • £ वा.