पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग णि त सा र स स ङ्ग्र हः


महावीराचार्यप्रणीतः ।

---

संज्ञाधिकारः ।

---

मङ्गलाचरणम् ।

अलङ्घ्यं त्रिजगत्सारं यस्यानन्तचतुष्टयम् ।
नमस्तस्मै जिनेन्द्राय महावीराय तायिने ॥ १ ॥

सङ्ख्याज्ञानप्रदीपेन जैनेन्द्रेण महा1त्विषा ।
प्रकाशीितं जगत्सर्वं येन तं प्रणमाम्यहम् ॥ २ ॥

प्री2णितः प्राणिस3स्यौधो निरीतिर्निरवग्रहः।
श्रीमतामोघवर्षेण येन स्वेष्टहितैषिणा ॥ ३ ॥

पापरूपाः परा यस्य चित्तवृत्तिहविर्भुजि ।
भस्मसा4द्भवमीयुस्तेऽवन्ध्यकोपोऽभ5वत्ततः ॥ ४ ॥

वशीकुर्वन् जगत्सर्वं स्वयं6नानुवशः परैः।
नाभिभूतः प्रभुस्तस्मादपूर्वमकरध्वजः ॥ ५ ॥

यो विक्रमक्रमाक्रान्तचक्रि78क्रकृतक्रियः ।
चक्रिकाभञ्जनो नाम्ना चक्रिकाभञ्जनोऽञ्जसा ॥ ६ ॥

यो विद्यानद्याधिष्ठानो मर्यादावज्रवेदिकः।
रत्नगर्भो यथाख्यातचारित्रजलधिर्महान् ॥ ७ ॥

विध्वस्तैकान्तपक्षस्य स्याद्वादन्यायवादिनः9
देवस्य नृपतुङ्गस्य वर्धतां तस्य शासनम् ॥ ८ ॥


1 M and B मह°. 2 M प्रणीतः . 3 सर्गौ° .

4M and K सद्भा° . 5 K, P and B भवेत् . 6 B योऽयं .

7 M क्री° . 8 M and B श° . 9 P वेदिनः .