गोभिलगृह्यसूत्रम्/प्रथमः प्रपाठकः

विकिस्रोतः तः


अथातो गृह्यकर्माण्युपदेक्ष्यामः १ यज्ञोपवीतिनाचान्तोदकेन कृत्यम् २ उद गयने पूर्वपक्षे पुण्येऽहनि प्रागावर्तनादह्नः कालं विद्यात् ३ यथादेशं च ४ सर्वाण्येवान्वाहार्यवन्ति ५ अपवर्गेऽभिरूपभोजनं यथाशक्ति ६ ब्रह्मचारी वेदमधीत्यान्त्यां समिधमभ्याधास्यन् ७ जायाया वा पाणिं जिघृक्षन् ८ अनुगुप्ता अप आहृत्य प्रागुदक्प्रवणं देशं समं वा परिसमुह्योपलिप्य मध्यतः प्राचीं लेखामुल्लिख्योदीचीं च संहतां पश्चाद्मध्ये प्राचीस्तिस्र उल्लिख्याभ्युक्षेत् ९ लक्षणावृदेषा सर्वत्र १० भूर्भुवःस्वरित्यभिमुखमग्निं प्रणयन्ति ११ प्रेते वा गृहपतौ परमेष्ठिकरणम् १२ तथा तिथिनक्षत्रपर्वसमवाये १३ दर्शे वा पौर्णमासे वाग्निसमाधानं कुर्वीत १४ वैश्यकुलाद्वाम्बरीषाद्वाग्निमाहृत्याभ्यादध्यात् १५ अपि वा बहुयाजिन एवागाराद्ब्राह्मणस्य वा राजन्यस्य वा वैश्यस्य वा १६ अपि वान्यं मथित्वाभ्यादध्यात् १७ पुण्यस्त्वेवानर्धुको भवतीति १८ यथा कामयेत तथा कुर्यात् १९ स यदेवान्त्यां समिधमभ्यादधाति जायाया वा पाणिं जिघृक्षन्जुहोति तमभिसंयच्छेत् २० स एवास्य गृह्योऽग्निर्भवति २१ तेन चैवास्य प्रातराहुतिर्हुता भवतीति २२ सायमाहुत्युपक्रम एवात ऊर्ध्वं गृह्येऽग्नौ होमो विधीयते २३ पुरा प्रादुष्करणवेलायाः सायंप्रातरनुगुप्ता अप आहरेत्परिचरणीयाः २४ अपि वा सायम् २५ अपि वा कुम्भाद्वा मणिकाद्वा गृह्णीयात् २६ पुरास्तमयादग्निं प्रादुष्कृत्यास्तमिते सायमाहुतिं जुहुयात् २७ पुरोदयात्प्रातः प्रादुष्कृत्योदितेनुदिते वा प्रात राहुतिं जुहुयात् २८ १


यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वापि वा कुशरज्जुमेव १ दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येँ से प्रतिष्ठापयति दक्षिणं कक्षमन्ववलम्बं भवत्येवं यज्ञोपवीती भवति २ सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेँ से प्रतिष्ठापयति सव्यं कक्षमन्ववलम्बं भवत्येवं प्राचीनावीती भवति ३ पितृयज्ञे त्वेव प्राचीनावीती भवति ४ उदङ्ङग्नेरुत्सृप्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेद्द्विः परिमृजीत ५ पादावभ्युक्ष्य शिरोऽभ्युक्षेत् ६ इन्द्रि याण्यद्भिः संस्पृशेत् ७ अक्षिणी नासिके कर्णाविति ८ यद्यन्मीमाँ स्यं स्यात्तत्तदद्भिः संस्पृशेत् ९ तत्रैतदाहुः १० नोऽपस्पृशेद्व्रजन् ११ न तिष्ठन् १२ न हसन् १३ न विलोकयन् १४ नाप्रणतः १५ नाङ्गुलीभिः १६ नातीर्थेन १७ न सशब्दम् १८ नानवेक्षितम् १९ न बाह्याँ सः २० नान्तरीयैकदेशस्य कल्पयित्वोत्तरीयताम् २१ नोष्णाभिः २२ न सफेनाभिः २३ न च सोपानत्कः क्वचित् २४ कासक्तिकः २५ गले बद्धः २६ चरणौ न प्रसार्य च २७ अन्ततः प्रत्युपस्पृश्य शुचिर्भवति २८ हृदयस्पृशस्त्वेवाप आचामेत् २९ उच्छिष्टो हैवातोऽन्यथा भवतीति ३० अथ प्रत्युपस्पर्शनानि ३१ सुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा विपरिधाय च रथ्यामाक्रम्य श्मशानं चाचान्तः पुनराचामेत् ३२ २


अग्निमुपसमाधाय परिसमूह्य दक्षिणजान्वक्तो दक्षिणेनाग्निमदितेऽनुमन्यस्वेत्युदकाञ्जलिं प्रसिञ्चेत् १ अनुमतेऽनुमन्यस्वेति पश्चात् २ सरस्वत्यनुमन्यस्वेत्युत्तरतः ३ देव सवितः प्रसुवेति प्रदक्षिणमग्निं पर्युक्षेत्सकृद्वा त्रिर्वा ४ पर्युक्षणान्तान्व्यतिहरन्नभिपर्युक्षन्होमीयम् ५ अथ हविष्यस्यान्नस्याग्नौ जुहुयात्कृतस्य वाकृतस्य वा ६ अकृतं चेत्प्रक्षाल्य जुहुयात्प्रोदकं कृत्वा ७ अथ यदि दधि पयो यवागूं वा कँ सेन वा चरुस्थाल्या वा स्रुवेण वैव ८ अग्नये स्वाहेति पूर्वां तूष्णीमुत्तरां मध्ये चापराजितायां च दिशीति सायम् ९ अथ प्रातः सूर्याय स्वाहेति पूर्वां तूष्णीमेवोत्तरां मध्ये चैवापराजितायां चैव दिशि १० समिधमाधायानुपर्युक्ष्य तथैवोदकाञ्जलीन्प्रसिञ्चेदन्वमँ स्था इति मन्त्रविशेषः ११ प्रदक्षिणमग्निं परिक्रम्यापां शेषं निनीय पूरयित्वा चमसं प्रतिष्ठाप्य यथार्थम् १२ एवमत ऊर्ध्वं गृह्येऽग्नौ जुहुयाद्वा हावयेद्वाजीवितावभृथात् १३ अथाप्युदाहरन्ति १४ कामं गृह्येऽग्नौ पत्नी जुहुयात्सायंप्रातर्होमौ गृहाः पत्नी गृह्य एषोऽग्निर्भवतीति १५ निष्ठिते सायमाशप्रातराशे भूतमिति प्रवाचयेत् १६ ऋते भगया वाचा शुचिर्भूत्वा १७ प्रतिजपत्योमित्युच्चैस्तस्मै नमस्तन्माख्या इत्युपाँ शु १८ ३


अथ वाग्यतो बलीन्हरेत् १ भाषेतान्नसंसिद्धिमतिथिभिः कामं सम्भाषेत २ अथ हविष्यस्यान्नस्योद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्याग्नौ जुहुयात्तूष्णीं पाणिनैव ३ प्राजापत्या पूर्वाहुतिर्भवति सौविष्टकृत्युत्तरा ४ अथ बलीन्हरेद्बाह्यतो वान्तर्वा सुभूमिं कृत्वा ५ सकृदपो निनीय चतुर्धा बलिं निदध्यात्सकृदन्ततः परिषिञ्चेत् ६ एकैकं वानुनिधानमुभयतः परिषिञ्चेत् ७ स यत्प्रथमं निदधाति स पार्थिवो बलिर्भवत्यथ यद्द्वितीयं स वायव्यो यत्तृतीयं स वैश्वदेवो यच्चतुर्थं स प्राजापत्यः ८ अथापरान्बलीन्हरेदुदधानस्य मध्यमस्य द्वारस्याब्दैवतः प्रथमो बलिर्भवत्योषधिवनस्पतिभ्यो द्वितीय आकाशाय तृतीयः ९ अथापरं बलिं हरेच्छयनं वाधिवर्चं वा स कामाय वा बलिर्भवति मन्यवे वा १० अथ सस्तूपं स रक्षोजनेभ्यः ११ अथैतद्बलिशेषमद्भिरभ्यासिच्यावसलवि दक्षिणा निनयेत्तत्पितृभ्यो भवति १२ आसीन एवाग्नौ जुहुयात् १३ आसीनः पितृभ्यो दद्याद्यथोपपादमितरान् १४ स्वयं त्वेवैतान्यावद्वसेद्बलीन्हरेत् १५ अपि वान्यो ब्राह्मणः १६ दम्पती एव १७ इति गृहमेधिव्रतम् १८ स्त्री ह सायं प्रातः पुमानिति १९ सर्वस्य त्वेवान्नस्यैतान्बलीन्हरेत्पित्र्यस्य वा स्वस्त्ययनस्य वार्थार्थस्य वा २० यज्ञादेव निवर्तते २१ यद्येकस्मिन्काले व्रीहियवौ प्रक्रियेतान्यतरस्य कृत्वा कृतं मन्येत २२ यद्येकस्मिन्काले पुनः पुनरन्नं पच्येत सकृदेवैतद्बलितन्त्रं कुर्वीत २३ यद्येकस्मिन्कुले बहुधान्नं पच्येत गृहपतिमहानसादेवैतद्बलितन्त्रं कुर्वीत २४ यस्य त्वेषामग्रतः सिध्येन्नियुक्तमग्नौ कृत्वाग्रं ब्राह्मणाय दत्त्वा भुञ्जीत २५ यस्यो जघन्यं भुञ्जीतैवेति २६ अथाप्युदाहरन्ति २७ एतस्यैव बलिहरणस्यान्ते कामं प्रब्रुवीत भवति हैवास्य २८ स्वयं त्वेवाशस्यं बलिं हरेद्यवेभ्योऽध्या व्रीहिभ्यो व्रीहिभ्योऽध्यायवेभ्यः सत्वाशस्यो नाम बलिर्भवति २९ दीर्घायुर्हैव भवति ३० विश्राणिते फलीकरणानामाचामस्यापामिति बलिं हरेत्स रौद्रो भवति स रौद्रो भवति ३१ ४


अथ दर्शपूर्णमासयोः १ सन्ध्यां पौर्णमासीमुपवसेत् २ उत्तरामित्येके ३ अथ यदहश्चन्द्र मा न दृश्येत ताममावास्याम् ४ पक्षान्ता उपवस्तव्याः पक्षादयोऽभियष्टव्याः ५ आमावास्येन हविषा पूर्वपक्षमभियजते पौर्णमास्येनापरपक्षम् ६ यः परमो विकर्षः सूर्याचन्द्र मसोः सा पौर्णमासी यः परमः संकर्षः सामावास्या ७ यदहस्त्वेव चन्द्र मा न दृश्येत ताममावास्यां कुर्वीत ८ दृश्यमानेऽप्येकदा गताध्वा भवतीति ९ त्रयः पौर्णमासीकाला भवन्ति सन्ध्या वास्तमितोदिता वोच्चैर्वा १० अथ यदहः पूर्णो भवति ११ पृथगेवैतस्य ज्ञानस्याध्यायो भवत्यधीयीत वा तद्विद्भ्यो वा पर्वावगमयेत १२ अथ यदहरुपवसथो भवति तदहः पूर्वाह्ण एव प्रातराहुतिं हुत्वैतदग्नेः स्थण्डिलं गोमयेन समन्तं पर्युपलिम्पति १३ अथैध्मानुपकल्पयते खादिरान्वा पालाशान्वा १४ खादिरपालाशालाभे बिभीदकतिल्वकबाधकनीवनिम्बराजवृक्षशाल्मल्यरलुदधित्थकोविदारश्लेष्मातकवर्जं सर्ववनस्पतीनामिध्मो यथार्थं स्यात् १५ विशाखानि प्रति लूनाः कुशा बर्हिः १६ उपमूललूनाः पितृभ्यः १७ तेषामलाभे शूकतृणशरशीर्यबल्वजमुतवनलश्ण्ठुवर्जं सर्वतृणानि १८ आज्यं स्थालीपाकीयान्व्रीहीन्वा यवान्वा चरुस्थालीं मेक्षणं स्रुवमनुगुप्ता अप इति १९ यानि चानुकल्पमुदाहरिष्यामः २० न तदहः प्रसृज्येत २१ दूरादपि गृहानभ्येयात् २२ अन्यतस्तु धनं क्रीणीयान्न विक्रीणीत २३ अबहुवादी स्यात् २४ सत्यं विवदिषेत् २५ अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यदेनयोः काम्यं स्यात्सर्पिर्मिश्रं स्यात्कुशलेन २६ ५
 

मानतन्तव्यो होवाचाहुता वा एतस्य मानुष्याहुतिर्भवति य औपवसथिकं नाश्नाति १ अनीश्वरो ह क्षोधुको भवत्यकाम्यो जनानां पापवसीयसी हास्य प्रजा भवति २ य औपवसथिकं भुङ्क्त ईश्वरो ह भवत्यक्षोधुकः काम्यो जनानां वसीयसी हा स्य प्रजा भवति ३ तस्माद्यत्कामयेतौपवसथिकं भुञ्जीयाताम् ४ अध एवैतां रात्रिं शयीयाताम् ५ तौ खलु जाग्रन्मिश्रावेवैतां रात्रिं विहरेयातामितिहासमिश्रेण वा केनचिद्वा ६ जुगुप्सेयातां त्वेवाव्रत्येभ्यः कर्मभ्यः ७ न प्रवसन्नुपवसेदित्याहुः ८ पत्न्या व्रतं भवतीति ९ यथा कामयेत तथा कुर्यात् १० एवमेवाहिताग्नेरप्युपवसथो भवति ११ यच्चाम्नायो विदध्यात् १२ अथ पूर्वाह्ण एव प्रातराहुतिं हुत्वाग्रेणाग्निं परिक्रम्य दक्षिणतोऽग्नेः प्रागग्रान्दर्भानास्तीर्य १३ तेषां पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्सव्यस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या ब्रह्मासनात्तृणमभिसंगृह्य दक्षिणापरमष्टमं देशं निरस्यति निरस्तः परावसुरिति १४ अप उपस्पृश्याथ ब्रह्मासन उपविशत्या वसोः सदने सीदामीति १५ अग्निमभिमुखो वाग्यतः प्राञ्जलिरास्त आ कर्मणः पर्यवसानात् १६ भाषेत यज्ञसंसिद्धिम् १७ नायज्ञियां वाचं वदेत् १८ यद्ययज्ञियां वाचं वदेद्वैष्णवीमृचं यजुर्वा जपेत् १९ अपि वा नमो विष्णव इत्येवं ब्रूयात् २० यद्यु वा उभयं चिकीर्षेद्धौत्रं चैव ब्रह्मत्वं चैवैतेनैव कल्पेन छत्त्रं वोत्तरासङ्गं वोदकमण्डलुं दर्भवटुं वा ब्रह्मासने निधाय तेनैव प्रत्याव्रज्याथान्यच्चेष्टेत् २१ ६


अथोलूखलमुसले प्रक्षाल्य शूर्पं च पश्चादग्नेः प्रागग्रान्दर्भानास्तीर्योपसादयति १ अथ हविर्निर्वपति व्रीहीन्वा यवान्वा कँ सेन वा चरुस्थाल्या वा २ अमुष्मै त्वा जुष्टं निर्वपामीति देवतानामादेशं सकृद्द्विस्तूष्णीम् ३ अथ पश्चात्प्राङ्मुखोऽवहन्तुमुपक्रमते दक्षिणोत्तराभ्यां पाणिभ्याम् ४ त्रिःफलीकृताँस्तण्डुलान्स्त्रिर्देवेभ्यः प्रक्षालयेदित्याहुर्द्विर्मनुष्येभ्यः सकृत्पितृभ्य इति ५ पवित्रान्तर्हिताँ स्तण्डुलानावपेत् ६ कुशलशृतमिव स्थालीपाकं श्रपयेत्प्रदक्षिणमुदायुवन् ७ शृतमभिघार्योदगुद्वास्य प्रत्यभिघारयेत् ८ अग्निमुपसमाधाय कुशैः समन्तं परिस्तृणुयात्पुरस्ताद्दक्षिणत उत्तरतः पश्चादिति ९ सर्वतस्त्रिवृतं पञ्चवृतं वा १० बहुलमयुग्मसंहतम् ११ प्रागग्रैरग्रैर्मूलानि च्छादयन् १२ पश्चाद्वास्तीर्य दक्षिणतः प्राञ्चं प्रकर्षति तथोत्तरेण १३ दक्षिणोत्तराण्यग्राणि कुर्यात् १४ एष परिस्तरणन्यायः सर्वेष्वाहुतिमत्सु १५ परिधीनप्येके कुर्वन्ति शामीलान्पार्णान्वा १६ उत्तरतोऽपां पूर्नः स्रुवः प्रणीता १७ भवेन वा स्यादित्येके १८ बर्हिषि स्थालीपाकमासाद्येध्ममभ्याधायाज्यां संस्कुरुते १९ सर्पिस्तैलं दधि पयो यवागूं वा २० तत एव बर्हिषः प्रादेशमात्रे पवित्रे कुरुते २१ ओषधिमन्तर्धाय च्छिनत्ति न नखेन पवित्रे स्थो वैष्णव्याविति २२ अनेन अद्भिरनुमार्ष्टि विष्णोर्मनसा पूते स्थ इति २३ सम्पूयोत्पुनात्युदगग्राभ्यां पवित्राभ्याम् २४ अङ्गुष्ठाभ्यां चोपकनिष्ठिकाभ्यां चाङ्गुलिभ्यामभिसंगृह्य प्राक्शस्त्रिरुत्पुनाति देवस्त्वा सवितोत्पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति सकृद्यजुषां द्विस्तूष्णीम् २५ अथैने अद्भिरभ्युक्ष्याग्नावप्युत्सृजेत् २६ अथैतदाज्यमधिशृत्योदगुद्वासयेत् २७ एवमाज्यस्य संस्करणकल्पो भवतीति २८ ७


पूर्वमाज्यमपरः स्थालीपाकः १ पर्युक्ष्य स्थालीपाक आज्यमानीय मेक्षणेनोपघातं होतुमेवोपक्रमते २ यद्यु वा उपस्तीर्णाभिघारितं जुहुषेदाज्यभागावेव प्रथमौ जुहुयात् ३ चतुर्गृहीतमाज्यं गृहीत्वा पञ्चावत्तं तु भृगूणामग्नये स्वाहेत्युत्तरतः सोमाय स्वाहेति दक्षिणतः प्राक्शो जुहुयात् ४ अथ हविष उपस्तीर्यावद्यति ५ मध्यात्पूर्वार्धाच्चतुरवत्ती चेद्भवति मध्यात्पूर्वार्धात्पश्चार्धादिति पञ्चावत्ती चेद्भवति ६ अभिघारयत्यवदानानि ७ प्रत्यनक्त्यवदानस्थानान्ययातयामतायै ८ अग्नये स्वाहेति मध्ये जुहुयात् ९ सकृद्वा त्रिर्वैतेनैव कल्पेन १० अथ स्विष्टकृत उपस्तीर्यावद्यत्युत्तरार्धपूर्वार्धात्सकृदेव भूयिष्ठं द्विरभिघारयेत् ११ यद्यु पञ्चावत्ती स्याद्द्विरुपस्तीर्यावदाय द्विरभिघारयेत् १२ न प्रत्यनक्त्यवदानस्थानं यातयामतायै १३ अग्नये स्विष्टकृते स्वाहेत्युत्तरार्धपूर्वार्धे जुहुयात् १४ महाव्याहृतिभिराज्येनाभिजुहुयात् १५ प्राक् स्विष्टकृत आवापः १६ गणेष्वेकं परिसमूहनमिध्मो बर्हिः पर्युक्षणमाज्यमाज्यभागौ च १७ सर्वेभ्यः समवदाय सकृदेव सौविष्टकृतं जुहोति १८ हुत्वैतन्मेक्षणमनुप्रहरेत् १९ प्रक्षाल्य वैतेनोद्धृत्य भुञ्जीत २० न स्रुवमनुप्रहरेदित्येक आहुः २१ आग्नेय एवानाहिताग्नेरुभयोर्दर्शपूर्णमासयोः स्थालीपाकः स्यात् २२ आग्नेयो वाग्नीषोमीयो वाहिताग्नेः पौर्णमास्याम् २३ ऐन्द्रो वैन्द्रा ग्नो वा माहेन्द्रो वामावास्यायाम् २४ अपि वाहिताग्नेरप्युभयोर्दर्शपूर्णमासयोराग्नेय एव स्यात् २५ समिधमाधायानुपर्युक्ष्य यज्ञवास्तु करोति २६ तत एव बर्हिषः कुशमुष्टिमादायाज्ये वा हविषि वा त्रिरवदध्यादग्राणि मध्यानि मूलानीत्यक्तं रिहाणा व्यन्तु वय इति २७ अथैनमद्भिरभ्युक्ष्याग्नावप्यर्जयेद्यः पशूनामधिपती रुद्र स्तन्तिचरो वृषा पशूनस्माकं मा हिँ सीरे तदस्तु हुतं तव स्वाहेति २८ एतद्यज्ञवास्त्वित्याचक्षते २९ ८


अथैतद्धविरुच्छिष्टमुदगुद्वास्योद्धृत्य ब्रह्मणे प्रयच्छेत् १ तं तितर्पयिषेत् २ ब्राह्मणस्य तृप्तिमनु तृप्यामीति ह यज्ञस्य वेदयन्ते ३ अथ यदस्यान्यदन्नमुपसिद्धं स्यात् ४ अथ ब्राह्मणान्भक्तेनोपेप्सेत् ५ पूर्णपात्रो दक्षिणा तं ब्रह्मणे दद्यात् ६ कँ सं चमसं वान्नस्य पूरयित्वा कृतस्य वाकृतस्य वापि वा फलानामेवैतं पूर्णपात्रमित्याचक्षते ७ ब्रह्मैवैक ऋत्विक् ८ पाकयज्ञेषु स्वयं होता भवति ९ पूर्णपात्रोऽवमः पाकयज्ञानां दक्षिणा १० अपरिमितं परार्ध्यम् ११ अपि ह सुदाः पैजवन ऐन्द्रा ग्नेन स्थालीपाकेनेष्ट्वा शतं सहस्राणि ददौ १२ अथ यदि गृह्येऽग्नौ सायंप्रातर्होमयोर्वा दर्शपूर्णमासयोर्वा हव्यं वा होतारं वा नाधिगच्छेत्कथं कुर्यादिति १३ आ सायमाहुतेः प्रातराहुतिर्नात्येत्या प्रातराहुतेः सायमाहुतिरामावास्यायाः पौर्णमासं नात्येत्या पौर्णमास्या आमावास्याम् १४ एतेनैवावकाशेन हव्यं वा होतारं वा लिप्सेत १५ अपि वा यज्ञियानामेवौषधिवनस्पतीनां फलानि वा पलाशानि वा श्रपयित्वा जुहुयात् १६ अप्यप एवान्ततो जुहुयादिति ह स्माह पाकयज्ञ ऐडो हुतं ह्येव १७ अहुतस्य प्रायश्चित्तं भवतीति १८ नाव्रतो ब्राह्मणः स्यादिति १९ अथाप्युदाहरन्ति २० यावन्न हूयेताभोजनेनैव तावत्संतनुयात् २१ अथ यदाधिगच्छेत्प्रतिजुहुयात् २२ एवमप्यस्य व्रतं संततं भवतीति २३ एषोऽत ऊर्ध्वं हविराहुतिषु न्यायः २४ मन्त्रान्ते स्वाहाकारः २५ आज्याहुतिष्वाज्यमेव संस्कृत्योपघातं जुहुयान्नाज्यभागौ न स्विष्टकृत् २६ आज्याहुतिष्वनादेशे पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिर्होमः २७ यथा पाणिग्रहणे तथा चूडाकर्मण्युपनयने गोदाने २८ अपवृत्ते कर्मणि वामदेव्यगानं शान्त्यर्थं शान्त्यर्थम् २९ ९
इति प्रथमः प्रपाठकः