पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संशTध्यायः १५१९ यन्त्राणि मानसज्ञा ख्याताध्यायाश्चतुर्दश ब्राह्म । अध्यायचतुविंशतिराखी र्दशभिर्युताध्यायैः ॥ ६ ॥ चु. भा–उत्तरार्धे तन्त्रपरीक्षाध्यायः । गणितं गणिताध्यायः। पञ्च मध्यमगत्युत्तरादयोऽधिकाराः सन्ति । मध्यगत्युत्तराध्यायः । स्पष्टगत्युत्तराध्यायः । त्रिप्रश्नोत्तराध्यायः । छेद्यकाध्यायः । शृङ्गोन्नत्युत्तराध्यायः । कुट्टाकाराध्यायः। छन्दश्चित्युत्तराध्यायः । गोलो गोलाध्यायः । यन्त्राणि ,यन्त्राध्यायः । मानसंज्ञा- ध्यायः। ख्याताध्यायः संज्ञाध्यायोऽयमेव । एवमुत्तरार्धे ब्राह्मो सिद्धान्ते चतुर्दशाध्यायाः सन्ति । एत आधैर्दशभिरध्यायेयु“ता अध्यायचतुर्विंशतिरत्र ग्रन्थे ज्ञेयेति ॥५-६॥ वि. भा.-ब्राह्म सिद्धान्ते (ब्राह्मस्फुट सिद्धान्ते) उत्तरार्धे (१) तन्त्र परीक्षाध्यायः(२) गणिताध्यायःमध्यमगत्युत्तरादयः पञ्चाध्याया: (३) मध्य- गत्युत्तराध्यायः(४) स्फुटगत्युत्तराध्यायः(५) त्रिपुरनोत्तराध्यायः(६) अहणो त्तराध्यायः(७ ) भृङ्गोत्रत्युत्तराध्यायः(८) कुढाकाराध्यायः(e) छेद्यकाध्यायः (१०) छन्दश्चित्युत्तराध्यायः(११) गोलाध्यायः (१२) यन्त्राध्यायः, (१३) मान संज्ञाध्यायः(१४) ख्याताध्यायः (संज्ञाध्यायोऽयमेव) इतिचतुर्दशाध्यायाः सन्ति । एते चतुर्दशाध्याया आधैर्दशभिरध्यापैयुताश्चतुर्विंशति संख्यका अध्याया अत्र ग्रन्थे शैया इति ।। ५-६ ॥ अब अपने सिद्धान्त के उत्तरार्ध में क्रमिक अध्याय संख्या कहते हैं। हि. भा--इस ब्राह्मस्फुट सिद्धान्त के उत्तरार्ध में (१) तन्त्रपरीक्षाध्याय, (२) गणिताध्याय, (३) मध्यगत्युत्तराध्याय, (४) स्फुटगत्युत्तराध्याय, (५) त्रिप्रश्नोत्तराध्याय, (६) प्रहणोत्तराध्याय(७) ङ्गोप्रत्युत्तराध्याय, (८) कुढाकाराध्याय, (e) छेद्यकाध्याय, (१०) छन्दश्चित्युत्तराध्याय(११) गोलाध्याय(१२) यन्त्राध्याय(१३) मानसंज्ञाध्याय (१४) संशाध्याय, ये चौदह अध्याय है । इनमें पहले (पूर्वार्ध) के दश अध्याय जोड़ने से इत्र ग्रन्थ में चौबीस अध्याय समझने चाहिये इति ।। ५-६ ॥ इदानीं ग्रन्थग्रथनकालमाह । धे चापवंशतिलके श्रीव्याघ्रमुखे नृपे शकनृपाणाम् । पञ्चाशत्संयुक्तर्वर्षशतैः पञ्चभिरतीतेः ॥ ७ ॥ ब्रह्मस्फुटसिद्धान्तः सज्जनगणितगोलवित्प्रीत्यै । त्रिशद्वर्षेण कृतो जिष्णुसुतब्रह्मगुप्तेन ॥ ८ ॥ । सु. भाः-श्रीव्याघ्रमुखे नृपे पृथ्वीं शासति। कविशिष्टे नृपे श्रीचापवंश