पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४१२ ब्राह्मस्फुटसिद्धान्ते जहां होगा वहीं दृग्लम्बन का भी परमत्व होग। । परन्तु ज्या परम त्रिज्या के बराबर होती है, पृष्ठीय दृग्ज्या त्रिज्या के बराबर पृष्ठक्षितिज और दृग्मण्डल के सम्पात बिन्दु में ग्रह के रहने से होती हैं अतः वहीं (पृष्ठक्षितिज दृग्मण्डल के सम्पात बिन्दु पर परम दृग्लम्बन (गर्भक्षितिजघरातल और पृष्ठक्षितिज धरातज के अन्तर्गत दृग्मण्डलीय चाप (कुच्छन्नकला) होता है । नति का परमत्व वित्रिभ स्थान में ग्रह के रहने से होता है । दृग्लम्बन और नति के शन से स्पष्ट लम्बन ज्ञान होता है उसके वश से ग्रह युत्यादि ज्ञान होता है यह ग्रहयुत्यधि कार देखने से स्पष्ट है इति ।।६५।। इदानीं दृक्कर्माह। सत्रिगृहक्रान्तिरुदग्दक्षिणयोस्त्रिज्यया हृतं वलनम् । विक्षेपगुणमृणधनं ग्रहेऽन्यदृक्कमंचरदलवत् ॥६६॥ सु. भा.-उदग्दक्षिणयोरुत्तरदक्षिणानयनयोः सत्रिग्रहक्रान्तिः सत्रिभग्रह- क्रान्तिज्या वलनमायनं वलनं भवति । तद्विक्षेपेण गुणं त्रिज्यया हृतं ग्रहे ऋणं वा घनमायनं दृक्कर्म भवति । अन्यदृक्कर्माक्षजं दृक्कभं चरदलवत् चरसाधनवज्ज्ञ - यम् । अत्रोपपत्त्यर्थमुदयास्ताधिकारे ३-४ श्लोकयोरुपपत्तिविलोक्या। अत्रैव चतुर्वेदाचार्येण ‘सत्रिग्रहोल्क्रमज्यया क्रान्तिः साध्ये त्यन्यथा व्याख्यातमत एव भास्करः ‘ब्रह्मगुप्तकृतिरत्र सुन्दरी सान्यथा तदनुगैविचार्यते’-इत्याद्युक्त वान् ॥६६॥ वि. भा.-उत्तरदक्षिणायनयोः सत्रिभग्रहक्रान्तिज्याऽऽयनं वलनं भवति । तन्मध्यमशरेण गुणं त्रिज्यया भक्त फलमृणं वा घनमायनं दृक्कर्म भवति । अन्य दृक्कर्म (अक्षजं दृक्कर्म) चरदलवत् (चरसधनवत्) बोध्यम् ।।६६॥ ग्रहबिम्बकेन्द्रोपरिगतं कदम्बप्रोतवृत्त क्रान्तिवृत्त यत्र लगति तदेव ग्रहस्थानम् । स्थानोपरि ध्रुवप्रौतवृत्तः कार्यं बिम्बकेन्द्रोपर्यहोरात्रवृत्त कार्यं तदा बिम्बकेन्द्रस्थानावधि मध्यमशर एको भुजः। बिम्बकेन्द्रात्स्थानोपरि ध्रुवप्रोतवृत्तो परिलम्बो द्वितीयो भुजः । स्थानोपरि ध्रुवप्रोतवृत्त तृतीयो भुजः । त्रिभुजेऽस्मिन् स्थानगतकदम्बप्रोतवृत्तध्रुवप्रोतवृत्तयोरुत्पन्नः कोण आयनवलनम् । लम्बवृत्त- स्थानगतध्रुवम्रोतवृत्तयोत्पन्नः कोणः=&० । तेनांनुपातेन मध्यशरज्याXआयनवलनज्या लम्बवृत्तीयचापज्या=बिम्बीयाहोरात्रवृत्तीय = चापज्या परन्तु सत्रिभग्रहक्रांज्या= युज्याग्रीयायनवज्या।