पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्फुटगति वासना १३६७ कक्षावृत्ते मध्यमग्रहस्थानं केन्द्र प्रकल्प्यान्त्य फलज्यामितेन व्यासार्धेन नीचोच्चवृत्तं विलिख्य भूकेन्द्रान्मध्यग्रहस्थानगता रेखा कार्या साऽत्रोच्च रेखा, नीचोच्ववृत्तस्योच्चरेखया सह यौ योगी ४ । तयोरूपरितन उच्चसंज्ञकः । अधस्तनो नीचसंज्ञकः । उच्चरेखोपरि मध्यग्रहस्थानात्कृता लम्बरेखा नीचोच्चवृत्तीयतियंग्रेखा, नीचोच्चवृत्तमुच्च प्रदेशाद् भांशैरङ्कनीयम् । तत्रोच्चाच्छीघ्रकेन्द्रमनु- लोमं देयम् । तत्र शीघ्रकेन्द्राग्रे पारमाथिको ग्रहः। अत्र ग्रहोच्चरेखयोस्तिर्यगन्तरं शीघ्रभुजफलम् । ग्रह तिर्यग्रेखयोररन्तरं कोटिफलम् । भूकेन्द्र ग्रहयोरन्तरं शीघ्रकणैः । एतदा नयनम् । मकरादिकेन्द्र (प्रथम पदे) भूम त्रिज्यात उपरिमन कोटिफलं दृश्यते अतः भूम+ मन= त्रि+कोफ= भून=स्पष्टा कोटिः। भून'+ग्रन' = भूग्र' =स्पष्टा को' + भुजफ' = ( त्रि + कोफ ) ' + भुजफ' = शीघ्रकणं मूलेन V (त्रि+कोफ)+भुजफ' =शीघ्रफलम् । एवमेव चतुर्थे पदे, अत्रोर्वभागे क्षेत्रे मकरादि केन्द्र बोध्यम्। अधोभागे च कक्षीदिकेन्द्रम् । कवर्धादिकेन्द्र (द्वितीय पदे तृतीयपदे च) भूम=त्रिज्या, ग़र= कोटिफलं=मन ग्रन=मुजफलम् । भूग्रः शीघ्रकर्णः । अत्र भूम त्रिज्यातः मन कोटिफलमधो दृश्यतेऽतः धूम-मन=न= त्रि-कोटिफ=स्पष्टाकोटि, मन+ग्रन=स्पष्टाको+भुजफ'= (त्रि–कोफ) + भुजफ' = शीघ्रकर्ण' मूल ग्रहणेन v(त्रि - कोफ)'+भुजफ' = शीघ्रक । अथ शीघ्रफलानयनघ । शीघ्रकरणं एकोऽवयवः। भुजफलं द्वितीयोऽवयवः। स्पष्टा कोटिस्तृतीयोऽवयवःइत्यवत्रयंवत्पन्नमेकं जात्यत्रिभुजस् । त्रिज्यैकोऽवयवः । शत्रु- फलज्या द्वितीयोऽवयवः । शीघ्रफल कोटिज्या तृतीयोऽवयवः, इत्यवयवत्रयंरुत्पन्न द्वितीयं जात्यत्रिभुजम् । एतयोस्त्रिभुजयोः साजात्यादनुपातो यदि शत्रुकर्णेन भुजफलं लभ्यते तदा त्रिज्ययाकिमित्यनुपातेन समागच्छति शीघ्रफलज्या तत्स्व- भुजफ त्रि शीफज्या, अस्याश्वापम्= शीघ्रफलम् । एतेनाऽऽचार्योक्त शीघ्रकर्णी मुपपन्नम् । सूर्य सिद्धान्ते "कोटिफलं केन्द्र मकरादौ धनं स्मृतम् । संशोध्यं तु त्रिजीवायां कथादौ कोटिजं फलम् ।। तबाहुफलवर्णीयान्मूलं कर्णशलाभिधः। त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम् । लब्धस्य चापं लिप्तादिफलं शैध्य मिदं स्मृतमिति सूर्यसिद्धान्तकारोक्तानुरूपमेवाचायक्तमस्ति । सिद्धान्त शेखरे “त्रिज्यकायां पदैस्तत् फलमथ खलु कोटेः कोटिसिद्धय विधेयम् । कोटिवाहु फल वर्गसमासाद्यत्पदं तदिह कर्णमवेहि। दोः फल त्रिगुणयोरभिघातात् कर्णलब्ध रूपम् =