पृष्ठम्:तन्त्रवार्तिकम्.djvu/११४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७७ तृती पादः याध्यायस्य षष्ठः । अपि च तुम बिगुणं कत्त पुरुषः प्रवर्तते न सा मिधेनी ।” क्रत्वङ्गत्वे च साप्तदश्यस्य न किं चित् श्रुत्यादि प्रमाणमुपलभामहे । यथा पादोदश्यस्य प्रकरणम् । तस्मादेतत्पञ्चदश्यं सामिधेनीनां दर्श- पूर्णमासयोश्च वाच्यप्रकरणभ्यामवधार्यते । साप्तदश्यं तु केवलं सामिधेन्यर्थमेव तस्येदनमानर्थक्यपरिह- राय खादिरत्वादिवत् क्रतुसंबन्धः कतप्यते । यदि त्वसौ प्रतीच्छेन्न त्वसौ संख्यान्तराव रुद्धः सन् प्रती च्छति । तत्र समिधेनीनामुभयथा ऽप्यवैगुण्यं भवति क्रतोः पुनः पाञ्चदश्येन । ततश्च कांस्यभोजिवद. सुरुये ऽप्यविरोधः स्यात् किमङ्ग पुनर्यत्र।ङगगुणवि- रोध एव स्पष्टः । तस्मकत्ववष्टम्भदर्पितेन पाञ्चदश्ये- नोत्कालितं सप्तदश्यं क्लिकटेन यावदतिदेशेम पtञ्चदश्यं नैव विकतीः प्राप्नोति तावदौपदेशिकन साप्तदश्येन प्रथमतराव रु इत्वात्ताभ्यो निराकृतं कवल प्रकृतिविष यत्वे नैवावधार्यते इति व्यवस्थायामुतायामुच्यते । न सस्तदश्यं बलवद्विकृतिष्वौपदेशिकम । अनारभ्यविधेस्तद्धि सामिधेन्यङ्गतां गतम् ॥ विकृतीनां तु नास्त्येवं प्रमाणं तत्परिग्रहे । अतिदेशेन हि प्राप्ति: पा।ञ्चदश्यस्य तानपि ॥ यथा प्रकरणप्राप्तं प्रकृतौ बलवत्तरम् । तथा ऽतिदेशविज्ञातं कवड्गविकृतिष्वपि । न च सामिधेनीष्वनति दिष्टासु तदू दरेण सान्तद श्यं विकृतरनुप्रवेष्टुं शक्नोति । यदा तु सामिधेन्यो । ऽतिदेशेन प्राप्स्यन्ते तदा पञ्चदश्यमपि कृतोपकारसं