पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः ।

३३

उक्तमन्विताभिधानम् । इदानीं तत्रैव किञ्चिद् विशेषम्

परामृशति -

किं कार्यान्वयिनं स्वार्थं किं वार्थान्तरसङ्गतम्।

शब्दोऽभिधत्त इत्येतदधुना संविमृश्यते ॥ ४२ ॥

तत्र कार्यान्वयवादी स्वपक्षं वर्णयति-

प्रतिपत्तुः प्रवृत्त्या हि शब्दविज्ञानबन्धना ।

कार्यसंसर्गधीरेव व्युत्पत्त्याध्यवसीयते ॥ ४३ ॥

प्रतिपत्तुः प्रवृत्तिलिङ्गेन विशिष्टकार्यज्ञानमनुमाय

तदन्वयिषु पदार्थेषु पदानां सामर्थ्यमवधारयति ॥ ४३ ॥

ननु बालेन यत् स्वात्मनि प्रवृत्तिनिमित्तमवगतं, त-

देव प्रतिपत्तुरप्यनुमीयते, तर्हिहितज्ञानं तत्साधनज्ञानं वा प्रैषादिर्वेङ्गितादिर्वा दर्शित:प्रवृत्तिनिमित्तमित्यत आह-

न प्रवृत्तिर्हितोपायात् तथेष्टादाशयाच्च न ।

व्यभिचारादबाधाच्च कार्यसिद्धेः फलादिषु ॥ ४४॥

अवधारिते च फले तत्साधने च नातीतादिरूपे प्रव-

र्तते । ततो हितादयोऽपि कालत्रयविविक्ततया कार्यबुद्धिगम्याः प्रवृत्तिहेतवः । तत्र व्यभिचाराद्धितादीनामव्यभिचाराच्च कार्यबुद्धेः सैव प्रवृत्तिहेतुरिति ॥ ४४ ॥

ननु तदेव हि कार्यं , यदिष्टसाधनम् । तदुक्तं-

“कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः ”


१. ‘क्षं व्याव’ क. पाठः२. 'च्च' ख. ग. पाठः . ३. ‘तं’ ख, पाठः,