पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२२

शाब्दनिर्णयः ।

पादनसामर्थ्ये सहकारिकारणसमवधानभेदेन कदाचित् क्वचिदेव कार्यहेतुत्वमर्थपक्ष इव न निरुध्यते। ननु योग्येतराशेषविशेषसंसर्गाभिधानसमर्थे गोशब्दे प्रयुक्ते कथमानयतिना तदपेक्षितो विशेषः समर्प्यते, आनयतेरप्यनेकविशेषसंसर्गसमर्थतया क्वचिदेव नियमाभावात् । स्यादेतत् – प्रथमप्रयुक्त एव शब्दोऽन्विताभिधाने वर्तते, चरमप्रयुक्तास्तु स्वरूपाभिधानेन तदर्थं नियमयन्तीति । तन्न । शब्दानां प्रयोगप्राथम्यानियमात् , सर्वेषामन्विताभिधानसामर्थ्यस्योपगन्तव्यत्वान्नियमासिद्धेः। अथाख्यातपदमेवान्वितमभिधत्ते, पदान्तराणि तु स्वरूपाभिधानेन तदर्थं नियमयन्तीति। तन्न । प्रमाणाभावाद्, आख्यातपदरहितवाक्ये च पदार्थान्वयदर्शनस्यापह्नोतुमशक्यत्वाच्च। तस्मान्न परस्परापेक्षयापि संसर्गनियमसिद्धिरिति ॥ २९॥

तत्राह-

रूपमात्रेऽनपेक्षत्वान्नियमो न विरुध्यते।

अर्थेऽपि साम्याच्चोद्यस्य नातः पर्यायता तयोः ॥३०॥

{{c|सत्यपि संसर्गाभिधानसामर्थ्ये गवादिशब्दानां गोत्वादिस्वरूपमात्रे सहकार्यनपेक्षया बुद्धिसामर्थ्यमस्ति । एकैकपदप्रयोगे तथा दर्शनात् । न हि शक्येऽपि सर्वत्र सहकार्यपेक्षैवानपेक्षैव वेति नियन्तुं शक्यते । उच्चालनपठनभोजनादिषु लोके क्वचिदपेक्षा क्वचिदनपेक्षेत्युभयथा दर्शनात् । अतः


१. ‘र्थनपेक्षैवेति नि’ क. पाठः