पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः।

१९

तत्र प्रमाणमाह-

आवापोद्धारलब्धार्थप्रयोजकसमाश्रयात् ।

व्यवधानात् पदेभ्यऽर्थक्रमवप्रत्ययैरपि॥ २४ ॥

ससर्गसिद्धेरर्थेभ्योऽप्यन्यथासिद्धितस्तयो: ।

स्वरूपमात्रे सामर्थ्यं पदानामवसीयते ॥ २५ ॥

{{c|गामानय गां बधान, अश्वमानय अश्वं बधान इत्यादिप्रयोगभेदेषु गोशब्दवापे गारूपमात्रावापात् , तदुद्धारे चोद्धरात् तावन्मात्रस्यैव गोशब्दाभिधेयता, नार्थान्तरतत्सं- सर्गयोः, व्यभिचारात् । तथा प्रतिपत्तिकालेऽपि गवादिश- ब्देभ्यः क्रमेणार्थमात्रप्रत्यया एव जायन्ते, नार्थान्तरतत्संसर्गप्रत्ययाः । ससर्गप्रत्ययस्त्वन्त्यपदार्थप्रत्ययात् पराचीन: ।तदेवं प्रयोगप्रत्ययाभ्यामर्थस्वरूपमात्रे पदसामर्थ्येऽवगते वाक्यप्रयोगसमनन्तरभाविनः सम्सर्गप्रत्ययस्यानन्यथासेिद्धान्वयव्यतिरेकाभ्यां पदार्था एव हेतवः कल्प्यन्ते । ननु प्रवृत्तिलिङगेन संसर्गप्रत्यय एवान्वयव्यतिरेकाभ्याम् शब्दकार्यत्वेन गम्यते । तन्न, कारणकारणविषयतया तयोरन्यथासिद्धेः । तस्मात् स्वरूपमात्रे पदानां शक्तिर्न संसर्ग इति स्थितम् ॥ २४, २५ ॥

एतन्निराकर्तुमन्विताभिधानपक्षं प्रतिजानीते-

पदानामेव यन्नाम संसृष्टस्वार्थबोधनम् ।

अन्वितस्याभिधानं तत् सङ्गिरन्ते विपश्चितः ॥२६॥