पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः।

१७

गृहीतपदपदार्थसम्बन्धात् पदव्यतिरिक्तादेव वाक्यादविभक्तपदात्मकाद् विशिष्टसंसर्गप्रतिपत्तिरिति केचित् प्रतिजानते। पदावबुद्धेभ्यः पदार्थेभ्य इत्यपरे । पदेभ्य एव संसृष्टाभिधानसमर्थेभ्यः संसर्गप्रत्यय इत्यन्ये प्रतिपादयन्ति ॥ २० ॥ तत्रान्त्यम् पक्षमात्मीयत्वेन स्वीकरोति-

पदैरेवान्वितस्वार्थप्रतिपादनशक्तिभिः।

गुणप्रधानभावात्मा संसर्गः प्रतिपाद्यते॥ २१ ॥

पक्षान्तरनिराकरणमुखेनैतत् प्रतिपादयितुं प्रथमं वाक्यपक्षम् निराचष्टे -

तन्मानाभावताऽनादानन्त्यात् सङ्गतेस्तथा ।

शक्त्यानन्त्यात् प्रयोगाणां भेदाद् वाक्यं न बोधकम् ॥

न तावत् पद्व्यतिरिक्तम् वाक्यम् पदसमवेतं घटादिवत स्वतन्त्रं वा श्रोत्रेण मनसा वा प्रत्यक्षेणोपलब्धं शक्यम् , एकवाक्यताबुद्धेः पदवद् विशिष्टैकार्थसामर्थ्योपाधिनिबन्ध- नत्वात् । अनभ्यस्तभाषायां तथानवगमात् । अपेिच अभ्युपगमेऽपि प्रतेिप्रयोगम् पदावापोद्धाराभ्यां भिद्यमानस्य वाक्यस्य पदशक्तिभ्यो व्यतिरिक्तशक्तिमत्श्च शक्येन सम्बन्धग्रहणमशक्यसम्पादनम् । नैवं पदपदार्थसम्बन्धज्ञानादिति चेत् । कथमन्यस्य सम्बन्धज्ञानादन्यमर्थमवगमयेत् । अथ नात्यन्तमन्यानि पदानि वाक्यात् , किन्तु तदेव परोपाधिविभागेन


१. ‘ष्ट’ ग. पाठः