अचिन्त्यं तेजसा व्याप्तं अप्रमेयमगोचरम् ।
छादितं मधया विष्णो: ज्वलितं सर्वतोमुखम् ॥ ६७
मध्ये तुरीयब्रलाख्यं स्वप्रकाशे तदेव सत् ।
स्वशक्तिगुणवैचित्र्यात् विसृजद्विश्वमध्ययम् ॥ ६८
उपदन निमित्तञ्च कारणं जगतः सतः ।
ऊर्णनाभेस्तन्तुनेव विहस्तस्य मायया ॥ ६९
मूलप्रकृतिमत् तत् कार्यस्वेनापि सन्नतम् ।
ततद्रा बहिर्युक्तं ततस्तत्रिविधं कृतम् ॥ ७०
ततस्कर्मानुगुण्येन भाति स्थूलं महकृशम् ।
विषयमहणे पूर्व दृश्यते हि तदेव सत् ॥ ७१
विदुषामहमुश्लेखपरामर्शावभासकम् ।
तदुपाधिभिरच्छिन्नं महत् स्थूलं तथा कृशम् ॥ ७२
स्थूलसूक्ष्मच्छिद्रघटात् यथोद्भच्छति दीपभाः ।
तथैव ब्रह्मणस्तेजो भाति भिन्नमुपाधिभिः ॥ ७३
उपाधित्रयमेतत् छिचा भक्तिमतां नृणाम् ।
एकमेवाद्वितीयं तत् त्रिशूये भाति भितम् ॥ ७४
मेघच्छिद्राणि सच्छिद्य भानुतेज इवोस्थितम् ।
नानास्वकल्पनायुक्तं विश्वप्रकृतिवर्जितम् ॥ ७५
नेति नेतीति च भृत्या। वोधितं यत्परं पदम् । ।
परिच्छेतुमशक्यत्वात् स्वप्रकाशे तदेव सत् ॥ ७६
सत्यं ज्ञानमनाद्यन्तं आनन्दममृतोस्थितम् ।
नित्यशुद्धप्रबुद्धामस्वरूपं वागगोचरम् ॥ ६७
सर्वतो व्याप्तमात्मानं निर्मलं निष्कलं शिवम् ।
शून्याशून्यफलं हित्वा प्रज्ञानं ब्रह्म गृम्भितम् ॥ ७८
30