पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३३
श्रीभविष्योत्तरपुराणे त्रयोदशोऽध्यायः


देवागारं समासाद्य स्थितवानग्रतो हरेः ।
रङ्गदासं मुनिईष्टाऽगर्हयद्रजसा मुहुः ॥ ५७

पूजाले शतिक्रान्तः चक्रपाणेर्महात्मनः ।
किमर्थं कृतवान् बाल! विलयं शूद्रनन्दन ! ॥ ५८

निन्दित्वा मुनिशार्दूले शूद्रे पूजाविलोपिनम् ।
तूष्णं स्थिते तु विप्रेन्द्रे स्थिते तूणीच पादजे ॥ ५९

शर्डीचक्रधरः शूद्र उवाच परया गिरा।
श्रीनिवास-'मा भैषीः पुत्र! भद्रं ते रन्नदास ! महामते! ॥ ६०

मायया में हितं विश्वं ससुरासुरमनुषम् ।
तत्रापि तव बुद्धिस्तु पश्चात्तापेन योजिता ॥ ६१

तस्मात्स्वमशुभः शुङ्ग ! सन्यजाऽतः कलेवरम्।
स्वामिपुष्करिणीतीरे सर्वपापनिवारणे ॥ ६२

मरणपुण्यदेशेऽस्मिन् शुद्रो जन्मान्तरे पुनः ।
सुधर्मतनयो भूत्वा तोण्डदेशाधिपो भव ॥ ६३

‘तोण्डमानिति विख्यातो लोके कीर्ति गमिष्यसि ।
शतस्त्रीवर्भो भूत्वा मम भक्तश्च केवलम् ॥ ६४

ततस्त्वं सार्वभौमः सन् राज्यभोगमुपैष्यसि ।
कन्यादानप्रसन्नश्च भविष्यति न संशयः ॥ ६५

तस्माद्देहं त्यजात्रैव निराहारोऽतिनिर्मरः ।
सुधर्मराजतनयो राजाऽऽकाशानुजो भव ॥ ६६

इत्युक्तो वासुदेवेन तनु तत्रैव सऽयजत् ।
स त्वमद्याकाशरजानुजोऽभूधर्मको नृपः ॥ ६७

तदा त्वया कृतस्वेषः कूप आरामकारणात् ।
इति ते कथितं पूर्वजन्मकर्मसमुद्भवम् " ॥ ६८

2A