पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१६
श्रीवेङ्कटाचलमाहात्म्यम्


इत्युक्तः प्रययौ राजन् ! भगवान् भक्तवत्सलः ।
अगस्येनापि सहितः त्वरयैव महर्षिणा ॥ १४

आदिश्येऽस्तं गते राजन् ! नगरद्वारमागतः ।
पप्रच्छ द्वारपालैश्च रजक्षेम सुरेश्वरः ॥ १५

राजमार्ग महाराज! भगवन् प्रियया सह ।
अन्तर्निकेतनं प्राप्य राजानं पृथिवीपते! ॥ १६

शयन दर्शयामास विनिःश्वाससमन्वितम् ।
पपन्नस्य महाराजकाये कमललोचनः ॥ १७

मरणोद्युक्तं वियन्नृपमुद्दिश्य श्रीनिघामदिकृतनिर्वेदनम्

मुखे मुख विनिःक्षिप्य ललाउच ललाटके ।
उदरे चोदरं बढ़ नेत्रे नेत्रे समर्पयत् ।
अङ्गसनं ददौ तस्य श्वशुरस्य महात्मनः ॥ १८

‘। तत! नथ! क गतोऽसि च त्वं
सन्यज्य देहं स्वमुतं स्वपुत्रम् ।
स्वभ्रातरं सूक्ष्ममतिं सराष्ट्रई
राज्यं त्वदीयं क बिसृज्य गच्छसि ! ॥ १९

मातापितृविहीनाननां अस्माकं जनको भवान् ।
कथं पश्यामि नेत्रभ्यां त्वन्मुखाम्भोजमुत्तमम् ॥ २०

उत्थापय सुतां राजन्! रुदतीं तनय तथा ।
वसुदनं शिशु राजन् ! पितृहीनञ्च मां नृप! ॥ २१

कलाता त्वां विना राजन् ! अस्माकतु भविष्यति!।
भनाथान् नाथ! नः पाहि प्रजाः पाहि प्रजापते ॥ २२