पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९१
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


रुदिताः शिशवतत्र प्रहृष्टास्तत्र केचन ।
केचिपयः स्म कान्ति केचिदनं महीपते !।
भुञ्जन्ति केचित् क्षीराने केचिदध्योदनं नृप!॥ २०४

इसन्ति केचित् प्ररुदन्ति केचित्
प्रयान्ति केचित्प्रलपन्ति केचित् ।
पतन्तमन्ये करपलवेन
समुद्धरन्ति स्म हसन्ति केचन ॥ २०५

सुराङ्गनाश्च रजेन्द्र! तथा वैखानसान्ननाः ।
ऋष्यञ्जनाश्च गन्धर्ववनिताश्चरुलोचनाः ॥ २०६

अवारोहन् गिरेघेघ श्रीनिवासपरायणाः ।
शेषाचलं समारभ्य नारायणपुरवधे ॥ २०७

तिलमात्रावशः स्म मागेमध्ये न दृश्यते ।
मध्ये कृत्वा पद्मतीर्थं गता सा वाहिनी हरेः ॥ २०८

ऋग्यजुस्सामाथर्वाचैः गीयमानो जगद्गुरुः ।
श्रीपतिः पद्मतीर्थाव्ये महातीर्थं महीपते ! ॥ २०९

आससाद जगद्योनिः सच्चिदानन्दविग्रहः ।
ससुरासुरगन्धर्वसिद्धसाध्यमद्भणः ॥ २१०

भगवन्तं प्रति शुकमुनिकृतोपचारक्रमः

प्रतं गरुडमारूढं कृष्णद्वैपायनात्मजः ।
साष्टाङ्गन्यसनं राजन्! प्रणिक्य शुकोऽब्रवीत् ।
‘तपश्च सफलं मन्ये कृतं मे पुरुषोत्तम ! ॥ २११

यो भवान् ब्रह्मरुद्रवैः अगम्यो वेदगोचरः ।
ते भवन्तं प्रपश्यामि नेत्राभ्यां पुरुभोजम ! ॥ २१२