पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७२
श्रीवेङ्कटाचलमाहात्म्यम्


अथ एकादशोऽध्यायः


***



भगधतः पश्चादिकारितपरिणयाईमङ्गलाभिषेकक्रमः



जनक -

ततः किमकरोकृष्णः श्रीनिव।सः सतां गतिः ।
तन्ममाचक्ष्व भगवन् ! विस्तरेण महामुने !' ॥ १

शतानन्द -

श्रीलक्ष्मीसहितः श्रीमान् श्रीनिवासः पितामहम् ।
अब्रवीत्प्रीतमनसा प्रयुञ्जानः प्रयोजने ’ ॥ २


श्रीनिवासः -

'कर्माणि पुत्र! कार्याणि कुरु शीघ्रमतन्द्रितः ।
स तद्वचनमाकर्थ ससन्तोषः पितामहः ॥ ३

कटहभण्डनिचयं आमनेतुं प्रैषयसुरान् ।
गरुडप्रमुखन् वीरन् नरायणपरायणान् ॥ ४

ते तस्य वचनं श्रुत्र क्षणेन गरुडादयः ।
कटाहादीन गृहीत्वाऽथ समजम्मुरनेकधा ॥ ५

अपूयजतस्तेषु स वयुः सलिलाधिः ।
सुगन्धं तोयनिचयं दिव्यतीथद्भवं शुभम् ॥ ६

तनः सर्वाः सुवासिन्यो वस्त्रालङ्कारमण्डिकाः ।
अरुन्धतीं पुरस्कृत्य कृतमङ्गलशैौतुकाः ॥ ७

सदीपकळशान् राजन्! पार्वतीप्रमुखः स्त्रियः ।।
चक्रुः समन्तामङ्गल्यान् ससवित्रीपुरोगमाः ॥ ८

गायन्यः शुभगानानि नितककृत तथा।
कृष्णावतारविभवं गायन्यश्चामरङ्गनः ॥ ९