वसून् सन्देशयामास भाण्डानां शुद्धिकरणक् ।
ग्रहांश्च द्रोणपात्रेषु न्ययोजयदरिन्दम!॥ १५४
एवं संशसिताः सव पुराणपुरुषेण च ।
आज्ञामादाय तेऽभूवन् सर्वे स्वस्थाः स्वकर्मषु ॥ १५५
ततो बवयमुवाचेदं ब्रह्मा लोकपितामहः।
ब्रह्म - 'मजनं कुरु गोविन्द! मङ्गलं मधुसूदन ! ॥ १५६
पुण्यापूर्वकर्माणि स्वेष्टदेवप्रपूजनम् ।
कुलदेवप्रतिष्ठञ्च सी कुरु रमापते ! ॥ १५७
विचह्निर्थे करवीरपुराद्रमाढ्पनम्
‘स पुत्रवचनं श्रुत्वा सस्मार जगदीश्वरः ।
रमं राजीवनयनां करवीरपुशलायाम् ॥ १५८
मया वियोगिनीं राजन्! दुःखिनः सुरसत्तमः ।
रुरोद लोकरीयैव भगवन् लैकिकैः समः ॥ १५९
न शोभते सभा दिया तया विरहिता। सुत ।
भवानहं मइप्रज्ञ! देवाश्च सपरिग्रहाः ॥ १६०
न शोभन्ते यथाऽऽकाशे तारास्तरापतिं विना ।
अपादपं यथाऽर्थं अपक्षाश्च विहङ्गमाः ॥ १६१
अफळश्च यथा वृक्षाः अधनाः सुहृदो यथा ।
तथा वयं महाप्राज्ञ! रहिता रमया तया ॥ १६२
वसुदेववचः श्रुव। बसुदेवमभाषत ।
शक्रः पृथिवीपाल! समुत्तिष्ठन् म्हभुजः ॥ १६३
राङ्करः- 'किन्छं रोदनं तात? किं ते कथं विडम्बनम् ।
असङ्गस्याप्रमेयस्य चक्ररवदस्य च ॥ १६४
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३८३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६७
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः