पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१८
श्रीवेङ्कटाचलमाहात्म्यम्


अनायासेन मे सा स्यात् इति मे निश्चिता मतिः ।
किं दृष्टं ब्रह्मणा पूर्व भयं घोरदर्शनम् ॥ ३२

यपापमनुसृत्यैर्वे घटने नाकरोद्विधिः ।
मद्भागस्थो विधिभ्वं हि साहाय्यं कुरु मेऽने! ॥ ३३

न करोषि यदा वाले ! तदा मे मरणं ध्रुवम् ।
मरणे जीवनोपायं ये कुर्वन्ति नरोत्तमाः ॥ ३४

ते दिवं यान्ति यानेन पुण्यमार्गेण कन्यके!।
इत्थं धर्मार्थकामाने धर्ममार्गमुपाश्रय । ॥ ३५

विमुक्तेन विशेषेण विदिताशाऽसि सङ्गमे ।
त्वं मे माता पिता देवि श्रवा मातुल एव च ॥ ३६

स्वं प्रहादभ्वमः त्वं ध्रुवस्वं गजेश्वरः।
स्वनुद्धवोऽतिभतो मे त्वं किरीटी बलिस्तथा । ॥ ३७

अजामिलो द्रौपदी च भक्तो मे त्वं विभीषणः ।
मां दृष्ट मे मनो हर्षे गच्छतीह निरन्तरम् ॥ ३८

मदुःखत्रयपनोदाय निर्मित बिघिनlsङ्गना।
गवां कोटिसहस्त्रेण हयानामयुतैस्तथा ॥ ३९

सुवर्णतिलदनैश्च समं मङ्गल्यवर्धनम् ।
कन्यां दृष्ट्वा तु सतोषं लभसे नात्र संशयः ।
इति तेन समज्ञस । बकुल वषयमब्रवीत् । ४०

वकुला ‘कुनlऽस्ते जगदाधार! त्वया याऽल निरीक्षिता ।
तन्मार्गे वद गोविन्द । गच्छामि करुणानिधे! ॥ ४१

का सा पूर्व किमर्थञ्च कर्पषक जनिता भुवि ।
तद्वत्तमखिलं ब्रूहि सत्येन मम केशव! ॥ ४२