पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०६
श्रीवेङ्कटाचलमाहात्म्यम्


धरणीतान् पञ्जाबयुम्पत्तिवर्णनम्

गुरु- 'यज्ञे कुरु नृपश्रेष्ठ ! पुत्रस्तेन भविष्यति ।
गुरोर्वाक्यं समाकर्यं यज्ञायाशोधयद्धराम् ॥ ५८

स्वर्णलफ़ल्म अँध द्विजमन्त्रिगणैस्तथा।
शोध्यमाने धरापृष्ठे तत्र पदं ददर्श सः।
सहस्रपत्रं राजेन्द्रः ‘किमेतदिति विस्मितः ॥ ५९

कन्याध पत्रेषु रमाकृतिं शुभां दृष्टुऽतिसन्तुष्टमना बभाषे ।
'देवेन दत्ता त्वियमिन्दिराभा कन्याकुमारी कमलभनेत्री'॥ ६०

इत्थं समाभाष्य नृपोत्तमोऽसौ हस्ते प्रगृह्याऽशु बभाण दीनः।
'माया महेशस्य दुरल्यया हरेः केयं तु या सप्रति गृह्यते मया ॥ ६१

इत्येवं संशयाने ते आकाशाख्यं नराधिपम् ।
उवाचऽकाशगा वाणी ‘पुत्रीयं तव वल्लभा ॥ ६२

संरक्षीनां महाभाग! बहुकीर्तिफलप्रदाम् ।
इत्यनन्तगतां वाणीं श्रुत्वा राजाऽतिहर्षितः ॥ ६३

तां कन्यां प्रतिगृह्याऽशु स्त्रभार्थं प्रयुवाच ह ।
'शृणु भद्रे ! महाप्राज्ञ ! देवदतामिमां शुभाम् ॥ ६४

संवर्धय वरं पुत्रीं गर्भजातां सुतामिव।
इत्युक्त्वा तकरे दत्वा बहुदानमथाकरोत् ॥ ६५

वियन्नृपस्य वसुदनाख्यसुतोत्पत्तिः

कल्याऽऽगमनपुण्येन सा देवी गर्भमादधे ।
गर्भिणीं स्वस- दृष्ट चक्रे पुंसवनं पतिः ॥ ६६

पक्षमासे तु सञ्जाते सीमन्त्रं नृपपुङ्गवः ।
कारयामास विधिना ब्राणैर्यजुषां गणैः ॥ ६७