पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०१
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः


कधीं बढ़ रमाकान्तः काञ्चीदामविभूषितः ।
शुभ्रवर्णछतरीयं पञ्चहस्तं तथा दधत् ॥ ४

आदर्शालोकिते वक्त्रे धृत्वा शुश्राव मृत्तिकम् ।
तन्मध्ये कुङ्कुमेनापि तिलकं सुमनोहरम् ॥ ५

पूगीफलश्च ताम्बूलं चूर्णनि:क्षेपपात्रकम् ।
कठूरवासितैः पूगकाचैर्जातीफलैः शुभैः ॥ ६

लवः पत्रसम्मिलैः गर्भितां रत्नपेटिकाम् ।
आदर्शमृत्तिकां शुभ्रां तथा कुङ्मभाजनम् ॥ ७

स्वर्णनिर्मितवस्त्रेण बद्धा तु कष्टमध्यतः ।
स्वर्णयज्ञोपवीताङ्गः कष्ठाभरणभूषितः ॥ ८

कङ्कणाङ्कितदोभ्यञ्च सम्पूर्णवरगात्रकः ।
भुजकीय रत्नमध्या राजमानोऽङ्गुलीयकैः ॥ ९

कुक्कुमाक्तसुगन्धेन लिप्तोरेवाहुरञ्जितः ।
कबरीकृतकेशेषु रक्तवस्त्रं सुवेष्टञ्च च ॥ १०

लभेम्बतैः पुष्पजालैश्च स्कन्धगैः परिभूषितः।
सुवर्णरत्नसम्बद्धपादुकगूहिताग्निकः ॥ ११

धनुर्बाणधरः श्रीमान् साक्षान्मन्मथमन्मथः ।
एवं मनोहरं रूपं धृत्वा श्रीवेङ्कटेश्वरः ॥ १२

हयं रलसमाकीणैः उपपदैर्विभूषितम् ।
सुवर्णतिलकोलासिवक्त्रं वायुमतोजवम् ।
नीलकणं पाण्डुपादं हस्तपञ्चदशेनतम् ॥ १३

आश्च देवमण्यादिसर्वलक्षणसंयुतम् ।
अवरुहा गिरिश्रेष्ठात् मृगयर्थ जगाम सः ॥ १४