पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८५
श्रीभविष्योत्तरपुराणे द्वितीयोऽध्यायः


सुवर्णमुखरी नम नदीनां प्रवरा नदी ।
शुकस्य वरदा पुण्य। ह्यगस्त्यमुनिपूजि३ ॥ ४१

तस्या एवोतरे तीरे क्रोशार्धद्वप्रमत्रके ।
श्रीवेङ्कटगिरिर्नाम वर्तते पुण्यकाननः । ४२

सुवर्णगिरिपुत्रस्तु सर्वतीर्थसमन्वितः ।
साक्षाच्छेषवतारोऽसौ सर्वधातुविशजिः ॥ ४३

वैकुण्ठसदशं दिव्यो नारायणसमाश्रयः ।
रथमारुतसवदत् आगतः पुण्यकाननः ॥ ४४

योजनत्रयविस्तीर्णः त्रिंशद्योजनमायतः ।
वदनं वेङ्कटगिरिः नृसिंहादिश्च मध्यमः ॥ ४५

श्रीौलः पुच्छभागस्थः सर्वक्षेत्रमयो गिरिः ।
सर्ववृक्षसमाकीर्णः सर्वधातुविभूषितः ॥ ४६

कुन्दमन्दरपनसप्लक्षोदुम्बरकिंशुकैः ।
पिचुमन्दैः परिजातैः तिन्त्रिणीजम्बुमण्डलैः ॥ ४७

सरलैश्च महावृकैः कृष्णागरुभिरञ्चितः ।
तालहिन्तालपुन्नागैः देवदारुभिराश्रितः ॥ ४८

हेसकारण्डवाकीर्णः बककोकशुकैर्युतः।
कपोतैः क्षीरहंस लैं. मृगषण्डैश्च भूषितः ॥ ५९

सिंहशार्दूलशरभकंडमानक्षेत्र नरैः।
जचुकैश्चैत्र भल्लूकैः कस्तूरीमृगमादिवैः ॥ ५०

उरगैर्यालखत्रैश्च गोमायुभिरपि श्रितः ।
मल्लिकामालतीजातिनन्द्यवर्जेविंशजितः ॥ ५१

चम्पकाशोकपुन्नागकेतकैः स्वर्णकेतकैः ।
एवं मन इ, : श्रीमान पर्वतः पुण्यकाननः ॥ ५२