पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८३
श्रीभविष्योत्तरपुराणे द्वितीयोऽध्यायः


प्राकारगोपुरद्वानवतोयभूषतम् ।
चतुर्दिक्षु चतुर्दारपालकैरुपशोभितम् ॥ २२

तत्र शय्यागृहे रम्ये शेषमथकशायिनम् ।
लक्ष्य । समेतं देवेशं ददर्श स भृगुस्तदा । ॥ २३

तताडोरसि गोविन्दं भृगुः पादतलेन तम् ।
ताड्यमानो हरिः साक्षात् उथय विनयान्वितः ॥ २४

पपात भगवान् भक्तय। ऋषिपदसरोरुहे ।
आलिलिहेऽथ भक्तयैव चोवाच ऋषिपुङ्गवम् ॥ २५

भृगुं प्रति श्रीवैकुण्ठनाथोक्तविनीतवचनम् ।

श्रीभगवान्-"किमर्थं त्वमृषिश्रेष्ठ! मच्छरीरं कठोरकम् ।
अताडयोऽजैरायुक्तमभेद्य देवमानवैः ॥ २६

वज्ञांदगुण विद्धि मच्छरीरे कठोरताम् ।
किमर्थं ताडितं विप्र! कोमलद्धि-लेन तत् ॥ २७

पाद) ते कोमलैौ दिव्यौ मच्छरीरसमागमम् ।
कियदु त्वं समपन्नौ न जानामि द्विजोतम! ॥ २८

इयुक्ता द्विजपादौ तौ प्रश्नस्योष्णोदकेन वै।
दधार शिरसा भक्तया विप्रपादोदकं शुभम् । ॥ २९

जगृहे सकुटुम्बश्च सर्वलोकं विडंबयन् ।
विबुधा दरीनेनैव पुनन्ति च जगतूयम् ।
इत्युक्तो देवदेवेन ऋषिश्चागाद्भरतलम् ॥ २०

भगवते भृगुकृतप्तस्चिकदेवतात्वसमर्थनम्

ऋषीणमननतीनां सभायां स ऋषिस्तदा ।
बोधयामास तान् सर्वान् ‘हरिः सर्वोतम, स्वयम् ॥ ३१