पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५७
श्रीमदादित्यपुराणे पञ्चमेऽध्यायः


ब्रह्माण्डगूहक्रमृदुलक्ष्णरेखात्रये ऽधरः ।
धर्मस्तनेऽधर्मपृष्ठः श्लक्ष्णसूक्ष्मतनूरुहः ॥ ३५

श्रीवरसाः कौस्तुल्यो वैजयन्ती हृदग्बुजः।
उन्नतांसाऽजानुलम्बिबाह्यभीतिवरप्रदः ॥ ३६

कुकुमाभकरन्यस्तशङ्कचमुलक्षणः ।
किर्णिकङ्कणसद्वलयाङ्गदभूषितः ॥ ३७

कम्बुग्रीवः सुबिम्बोष्ठः कुन्दकुड्मदंष्ट्रवान् ।
आदर्शबझ्यसूक्ष्मगण्डयुग्मसुमण्डितः ॥ ३८

सुनासोऽनिमिषः सुभ्रः करुणापूर्णलोचनः ।।
शरपूर्णेन्दुवदननतनीलमुकुन्तलः ॥ ३९

अतुल्यतिलकं.पे रतकुण्डलमण्डितः।
स्फुरद्रत्नकिरीटश्च सर्वलक्षणसंयुतः ॥ ४०

जगद्विलक्षणः श्रीमान् मद्विभ्यो नियचिसुखः ।
सूर्यक टिप्रीकशः चन्द्रकोटिसुशीतलः ॥ ४१

अनन्तवेदैर्बलाचैः अवेद्योऽप्राकृ हरिः ।
श्रीधराभ्यां समाश्लिष्टो ब्रह्मरुद्रेन्द्रसेवितः ॥ ४२

पूर्णानन्दज्ञानदयातिः परममङ्गलः ।
मङ्गलाको मङ्गलकं भक्तमङ्गलदायकः ॥ ४३

करुणामृतपूर्णाभ्यां मां नेत्राभ्यां समीक्षते ।
का चिन्ता मे ! इहामुत्र सर्वारिटं हरत्यसौ॥ ४४

तपदावुजविधासे सर्वाभीष्टं ददाति हि ।
इति स्मरन्नहैरात्रं त त्वाहं शरण गतः ॥ ४५

भोः स्वमिन् ! पूर्ण मिस्वं सयूथैर्यवानपि ।
स्वप्रयोजनहीनोऽपि मायया बहुरूपवान् ॥ ४६

17