पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५६
श्रीवेङ्कटाचलमाहात्म्यम्


मनोजयविहीनश्च सदा विषयलम्पटः ।
पांसूनां वृष्टिबिन्दूनां मदोषाणां मितिर्न हि ॥ २३

गुणास्वयि यथा पूर्णा दषाः पूर्णास्तथा मयि।
अलमत्यादहंकारा अज्ञानलोभतो मया। ॥ २४

दग्भात् प्रमाददक्षिण्यात् स्वभावात् सन्नतः कृतान्।
असह्यानपराधान्मेऽगणयिया क्षमस्व माम् ॥ २५

पिता माता गुरुर्धाता सखा बन्धुस्वमेव मे ।
विद्या सत्कर्म वित्तश्च पुरः पृष्ठे च पार्श्वयोः ॥ २६

मुनिं हृत्कमले येऽन्तः बहिर्जन्मनि जन्मनि ।
कुलस्वामीष्टदेवो नो वृतः पितृपितामहैः ॥ २७

सर्वे स्वमेव रुमीश! न जाने त्वां बिना परम् ।
दुस्मृतिं हर दूरान्मे विस्मृतिं ते विलोपय ॥ २८

स्वत्सृतिं सम्प्रदेहाद्वा क्रसमो नास्ति मे प्रियः ।
त्वन्मनस्त्वद्तप्राणः त्वत्पदाम्बुजसंश्रितः ॥ २९

तव भक्तल दासोऽस्ति शिष्यः पुत्रोऽस्मि केवलम् ।
भृत्यस्त्वमेव विश्वस्य स्मरामि वामहर्निशम् । ॥ ३०

श्रीहरिर्मम हृत्पद्मकर्णिकास्थोऽतिसुन्दरः।
पद्मासनसमासीनः इद्रनीलसमद्युतिः ॥ ३१

कङ्गको मरदाधः कुङ्कमाधिकवर्णयन् ।
वज्ञाडुराध्वजब्बार्कपादाब्जनखरतवान् ॥ ३२

कणन्प्रसन्नदत्ररूयाद्धपद'बुजः ।
अतसीपुष्पसङ्काशतेजःपुञ्ज पुङ्गवतः ॥ ३३

नितम्बपीतवसनः स्वर्णकञ्च्यवतोऽच्युतः ।
विरिच्यधात्सौवर्णगम्भीराब्जाभनाभिकः ॥ ३४