पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५३
श्रीमदादित्यपुराणे चतुर्थोऽध्यायः


महाविपसु त्वन्नामस्मरणं तद्वनाशनम् ।।
बहुसम्थत्सु ते नामविस्मृ5िः तद्वनाशिका ॥ ५०

तस्मान्नमसक्तोऽहं सर्वदस्वदनुग्रहात् ।
त्वरप्रेरितस्त्वदीययात् पुण्यं स्वदयावलम् ॥ ५१

न कदाचिद्भयं मेऽति दिव्यनामरतो यतः ।
तथाऽपि ते कृपालेशलेशलेशोऽस्ति मध्यहो ॥ ५२

श्रीश ! चित्तं चरित्रं ते न जाने बहुदुष्कृतिः।
सर्वज्ञ सर्वदा किं त्वां वदामि कृपयाऽव माम् ॥ ५३

नान्न महापौघहानिः मनः कायौ ततः शुची ।
तं दृष्टा भूयसे विष्णो! ततः सकर्मसङ्ग्रहः ॥ ५४

कर्मणा ज्ञानसिद्धिश्च तेन प्रीतिस्तङ्गता ।
अपरोक्षमदूरे च मुक्तिरानन्दवर्धिनी ॥ ५५

गोदानकन्यादानानि पृथिवीरेणुसह्यया।
दुर्भिक्षे जाह्नवीतीरे प्रत्यहं कोटिभोजनम् ॥ ५६

स्वतमस्मरणातयं नाममाहाम्यमीदृशम् ।
तस्मानमस्मृतिः सिद्धा सुलभा पुरुषार्थदा ॥ ५७

लोकोत्तरस्त्वयं मार्गः प्रजानामकुतोभयः।
यत्न भक्तिवशाः सर्वे नामस्मृतिपरायणाः ॥ ५८

येनैकदा विष्णुपदाब्जयुगमे समर्पितं चित्तमनन्यबुद्धया ।
यमोऽपि तद् दूतगणः सपाशः पश्यन्यधौघश्रयमप्यहो नतम् ॥५९

इति श्रीमदादित्यपुराणे श्रीवेङ्कटाचलमाहात्म्ये भगवद्गुणनमः


महिमानुवर्णनं नाम ।


चतुर्थोऽध्यायः ।