यमाय नियमायाथ दानव्रतकराय च ।
तपस्विने च तष्याय तापत्रयहराय च ॥ २८
यज्ञाश्च विधाय सुमङ्गलाय सुतीर्थपादाय सुतारकथ
प्रसन्नलोकानुगुणाय शम्भवे शुद्धाय शश्वद् गुणवर्मणे नमः ॥ २९
कर्मिणे कर्मलिप्तय ज्ञानाय ज्ञानदायने ।
नित्यमुक्ताय हरये नित्यमुक्तिप्रदायिने ॥ ३०
शुद्धं वपुःपरमयोगमतुल्यसौख्यं
भूमेिं घुलकमुत तत्वमतिं सुभक्तिम् ।
वैराग्यमन्यसुगुणान् भजतां ददानं
श्रोश दय दांवमहं शरण प्रपद्ये ॥ ३१
सुलभ दुलभ कन्दं भगवन्तं सनातनम् ।
सदसवक्षेत्रगं विष्णु भूर्तामूर्त शुभाशुभम् ॥ ३२
गोविन्दं गोगणातीतं कल्मषन्नमकल्मषम् ।
प्रतिकल्पेनल्पकल्पतरुं सर्वार्थकल्पकम् ॥ ३३
दुष्टभावप्रमत्तो वा नामाधुचारकोऽपि यः ।
ब्रहत्यादिपापानि दहत्येव च नान्यथा ॥ ३४
अज्ञानादथ वा दम्भात् पुण्यश्लोकस्य नाम ते ।
यो वदेत्तानि नश्यन्ति तूलराशिर्यथानलात् ॥ ३५
क्षुधितो दुःखितः अन्तः तन्नाम यदि संस्मरेत् ।।
तस्य दुःखानि सर्वाणि नश्यन्ति क्षणमात्रतः ॥ ३६
सर्वाण्यशुभजातानि दुरितान्यपि यानि च ।
तानि सर्वाणि लभते मत्तस्यां व्यस्मरेद्यदि ॥ ३७
न तीर्थयात्रा न च दानयज्ञाः व्रतं तपो नार्चनमन्यदैवतम् ।
यच्छीनिवासस्य च नामकीर्तनं तदेव सर्वार्थसुवृष्टिकारणम् ॥ ३८
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२६७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५१
श्रीमदादित्यपुराणे चतुर्थोऽध्यायः