पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२६
श्रीवेङ्कटाचलमाहात्म्यम्



व्यासोक्तश्रीवेङ्कटचलकरणीयदानप्रशंसा

व्यास:- -

अन्नदनं वदनं द्वयमेनप्रशस्यते । ।
पितुः श्राद्धे विशेषेण वेङ्कटद्रौ नगोसमे ॥ १०

सुवर्ण ये प्रयच्छन्ति प्रीतये मधुघातिनः।
सबैलोक समासाद्य मोदते मुनिसत्तमाः ॥ ११

सालग्रामशिलादानं यः करोति नगोत्तमे ।
अङ्गभङ्गमवाप्नोति स्वानुभूतिश्च विन्दति ॥ १२

यो ददाति द्विजेन्द्राय गोदानञ्च कुटुम्बिने ।

  • रोममङ्याप्रमाणेन विष्णुलेके विराजते ॥ १३


भूमेिं ददाति यो देवि! ब्राह्मणाय कुटुम्बिने ।
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ॥ १४

चम्यां ददाति यो देवि! श्रोत्रियाय द्विजातये ।
विष्णुलोकं समासाद्य मोदते पितृभिः सह ॥ १५

प्रपां कुर्वन्ति ये देवि! शीतलोदकसंयुतम्। ।
तेषां पुण्यफलं वक्तुं शेषेण)पि न शक्यते ॥ १६

तिरं ददति विप्राय श्रोत्रियाय कुटुम्बिने ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ १७

घान्यदानं प्रशंसन्ति विप्रा वेदविदां वरः ।
बहुपुत्र। भविष्यन्ति धान्यदानं प्रकुर्वताम् ॥ १८

गन्धचम्पकपुष्पादीन् छन्नब्यजनचमरन् ।
तावुळघनसारादीन् यो ददति द्विजातये। १९

भुस्सा भोगे चिरं कालं स्वर्गलोकं ततो व्रजेत् ।
दिव्यवर्षसहरुश्च भुक्वा भोगाननेकशः ॥ २०