पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२११
श्रीस्कन्दपुराणे (तृतीयभागे) नवमोऽध्यायः


अस्ति दक्षिणदिग्भागे वेङ्कटो नाम भूधरः ।
श्वेतद्वीपादपि हरेः आवासोऽयमभीप्सितः ॥ ४२

तस्मिन् गिरावगस्त्यस्य शङ्कम्य च महीपतेः ।
दर्शयिष्यति गोविन्दो निजरूपं जगद्भः ॥ ४३

तदानीं सर्वदेवानां ऋषीणां यक्षरक्षसाम् ।
असाकं देवदेवस्य दर्शने सम्भविष्यति ॥ ४४

अचिरेणैव तद्भावि ततः सन्त्यक्तकल्मषः ।
अन्वेष्टुं गच्छतागस्यं तसिन् नारायणाचले । ॥ ४५

इHां य घन समागम्यात्र भाग्यतः ।
दृष्टवन्तो महाभागं भवन्तं भूरितेजसम् ॥ ४६

भवता सहिता गत्वा स्वामिपुष्करिणीतटे ।
तमप्यालोकयिष्यामः शवे भागवतोत्तमम्" ॥ ४७

अगस्त्यादिकृतेश्रीवेङ्कटाचलस्थरम्यवस्तुदर्शनम्।

भरद्वाजः-- गीष्पतिप्रमुखैरिस्थं आदिष्टः कुम्भसम्भवः ।
शेककालं परित्यज्य ययौ नैः सहितो दूतम् ॥ ४८

स ददर्श महावृक्षान् फलपुष्पभरानतान् ।
प्ररूढशाखामिकच्छायाच्छादितदिक्तटान् ॥ ४९

सिंहदन्तावलयप्रवराहमहिषदिन् ।
मृगनालोक्यमास पन्थानं चान्तरन्तरा ॥ ५०

तैस्तदानीं ददृशिरे सनयेऽप्यम्बुभूद्धतः ।
सुवर्णरौप्यताम्रदिशोभिताः तत्र तत्र तु ॥ ५१

उचकच्छीकरासारनिर्वापितदिवसः
वेगोदृतशिश दृष्टाः शतशो गिरिनिझीराः ॥ ५२