पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
श्रीवेङ्कटाचलमाहात्म्यम्


देवासुराणामन्योन्यं अहोरात्रं विपर्ययात् ।
उत्तरं दक्षिणं भानोः अयने ते यथाक्रमम् ॥ ३०

मानुषाब्दैः खखव्योमखाक्षिपावकसागरैः।
महायुगं भवेत् पर्थ ! झूताधाकारसंयुतम् ॥ ३१

सतया सैया कालो युगानामन्तरे मनोः।
अस्मिन् श्वेतवराहस्ये कल्पे जातान् मनून् शृणु ॥ ३२

स्वायंभुवः स्यात्प्रथमः ततः स्वारोचिषो मनुः ।
उत्तमस्तामसस्यश्च रैवतश्चक्षुषाहयः ॥ ३३

एते गतः प्राञ्जनवः षट् सेन्द्रसुरतापसाः ।
वैवस्वतो वर्ततेऽद्य समो मनुर्जुन ! ॥ ३४

आदित्यवसुरुद्राद्याः तकाले देवतागणाः।
इष्टाऽश्वमेधशतकं तेजस्वी प्राप शकिताम् ॥ ३५

विश्वामित्रोऽहमत्रिश्च जमदग्निश्च काश्यपः ।
वसिष्ठो गौतमश्चैव ते वै सप्तर्षयोऽर्जुन! ॥ ३६

इक्ष्वाकुप्रमुखः शूरा मनुपुत्र महाबलः ।
अवनीं पालयामासुः नित्यं धर्मपरायणाः | ३७

सूर्यदक्षत्रधर्मरुद्रणां पञ्च सूनवः ।
सावर्णिरौच्यभौमाद्याः भविष्यन्मनुसस्रकम् ॥ ३८

चतुर्दश विधातुस्ते भवन्ति भनवोऽहनि ।
तकल्पसंज्ञ तस्यान्ते निशा स्यात्तत्सम शृणु ॥ ३९

दिनावसानसमये ब्रह्मणः पाण्डुनन्दन!।
जयतेऽवग्रहो घोरः पृथिव्यां शतवार्षिकः ॥ ४०

तसिन् अवग्रहे पृथ्घ्य नीरसायां धनञ्जय!।
चतुर्विधानि भूतानि समायान्ति परिक्षयम् ॥ ४१